#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00006 Uniform title: āṣṭaprakaraṇa mokṣakārikā Main title: āṣṭaprakaraṇam mokṣakārikā Secondary title: ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ Author : sadyojyoti Commentator : rāmakaṇṭha Editor : kṛṣṇa śāstrī Description: E-text of the mokṣakārikā from ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ in the devakottai series. . Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1925 Publication city : Publication country : India #################################################### मोक्षकारिका सद्योज्योतिःशिवाचार्यप्रणीता भट्टरामकण्ठकृतव्याख्यासहिता याभ्यां प्रकाशितं वर्त्म सिद्धान्ते सिद्धभावतः | गुरूणामपि तौ वन्द्यौ सद्योज्योतिर्बृहस्पती || भोगमोक्षप्रदं नत्वा भोगमोक्षाय शङ्करम् | भोगमोक्षेषु संक्षेपाद् व्याख्यास्ये मोक्षकारिकाम् || इह हि - रुरुसिद्धान्तसंसिद्धौ भोगमोक्षौ ससाधनौ | वच्मि (भो० का० २) इति प्रतिज्ञायां पूर्वम्- भोक्तुर्भोगश्चितेर्व्यक्तिः (भो० का० ७३) इत्यादिना भोगो भोक्तारश्च पशवोऽस्वतन्त्राः, तेषां च भोगसाधनं कार्यकरणादिरूपं क्षित्यादिकलान्तं विश्वं विश्वोपादानकारणं च मायार्थं प्रतिपादितम्, अधुना तु भोगसिद्धये भोक्तृणां किं तत्स्वत एव प्रवर्तते, उत कर्तृप्रेरितमित्यत्र साधनान्तरं कर्तृलक्षणमुच्यते- अजातमलसंबन्धः सर्वज्ञः सर्वकृद् विभुः | सकलो निष्कलोऽनन्तः स्वेच्छानन्तरकार्यकृत् || १ || निर्मुक्तातिशयैश्वर्यो मायां विक्षोभ्य शक्तिभिः | भोगिनां भुक्तये विश्वं विचित्रं कुरुते शिवः || २ || विश्वं मायोपादानत्वेन पूर्वोक्तं भोगसाधनमदृष्ट-कर्तृकम् | तस्मिन् विशिष्टकार्यत्वाद् विशिष्टज्ञानक्रियाकर्तृत्वं कुम्भकारादिजन्यवन्निश्चितमिति विश्वस्य सावयवत्वान्नासिद्धः, नाप्यनैकान्तिकः, सर्वस्यादृष्टकर्तृकस्य वनकुसुमादेरपि पक्षीकृतत्वात् | अत एव न विरुद्धः, विपर्ययव्याप्त्यभावात् | न च त्रैरूप्याद्धेतुलक्षणं संभवतीत्युक्तमन्यत्र | नन्वज्ञेन कर्त्रा सह दृष्टान्ते सिद्धव्याप्तिकादस्माद्धेतोरज्ञ एव विश्वकर्ता सम्भवतीति इष्टव्याघातः ? न, येनासावप्यजातमलसंबन्ध एव | कुम्भकारस्यापि स्वकार्यनिष्पत्तौ मलेनाज्ञानेना- नुत्पन्नसम्बन्धत्वात् | यदि हि तत्राज्ञानं भ्रान्तिर्वा भवेन्नैवासौ कुम्भं कुर्यात्, अपि त्विष्टकां घटादिकं विकलावयवं कार्यानुपयोगिनं कुम्भकारः कुर्यात् | तद्यथा सकलावयवं कुम्भं दृष्ट्वा कुम्भकारो बुद्धिसौष्ठवयुक्तोऽनुमीयते, न त्वज्ञो भ्रान्तो वा, तथैवेश्वरोऽपि स्वकार्याद् विश्वलक्षणादनुमीयमानोऽजातमलसम्बन्ध एवानुमीयत इति नेष्टविघातः कश्चित् | ननु कुम्भकारस्य स्वकार्यादन्यत्राज्ञानमस्त्येव | भवतु, प्रकृतेऽस्य कुम्भविषये नास्तीत्यत्र दृष्टान्तता | नन्वेवमीश्वरस्य स्वकार्यादन्यत्राज्ञानप्रसङ्गः ? न, तत्कार्यभोगमोक्षसाधन- विश्वव्यतिरेकेणान्यस्याभावात् | नन्वन्यन्नास्तीति कुतः, अस्तु तद्भोगसाधनं चेत्कार्यकरणादिवत् कार्यमेव | तदसाधने तु तस्मिन् निष्प्रयोजने तस्याज्ञानं शशविषाणादाविव भूषणमेव | तदाहुः- हेयोपादेयतत्त्वस्य साभुपेयस्य वेदकः | यः प्रमाणमसाविष्टः न तु सर्वस्य वेदकः || इति | अत एव विश्वव्यतिरेकेणान्यस्याभावात् सर्वज्ञः सर्वकर्ता च विश्वकृत् | कुम्भकारस्यापि स्वकार्ये स्वर्ज्ञतासर्वकर्तृतासिद्धेः | नहि तस्य तत्रांशेनाप्यज्ञत्वे शक्तिवैकल्ये वा कुम्भस्ततो भवेदित्युक्तम् | अत एव कुम्भकारवत् स्वकार्य व्यापकत्वाद् विभुः कार्यस्य विभुत्वात् | कुम्भकारस्यापि हि स्वकार्यपृथुबुध्नोदरभोगेष्वव्याप्नुवतस्तत्र पर्वतादाविव कर्तृत्वाऽसिद्धेः | ननु कार्यसत्तावच्छरीरमपि विश्वकर्तुः प्राप्तम् ? न कुम्भकारादीनामपि स्वदेहस्पन्दादिकार्य न शरीरान्तरपूर्वकं दृष्टं यतः | ननु तदपीच्छाजन्यमेव ? सत्यम् | अत एव सर्वं कार्यजातं तमेव कारणत्वेन न व्यभिचरतीति विश्वकर्ताऽपीच्छानन्तरकार्यकृदनुमीयत इत्यदोषः | नन्विच्छापि मनोवृत्तिः, कथं विश्वकर्तुः सा संभवति | इच्छा न मनोवृत्तिरस्मदादीनामपि, किन्तु बुद्ध्यभिव्यङ्ग्या ज्ञानशक्तिरिव मनोभिव्यङ्ग्या क्रियाशक्तिरेवेत्युक्तमस्माभिर्मन्त्रवार्त्तिकटी-कायाम्- शाक्तस्य हि तन्मनसस्त्विच्छा ह्येषा क्रियाशक्तिः इति | अतो भगवतस्त्वनावृतशक्तित्वान्न व्यञ्जकोपयोगः | नन्विच्छायाः शरीरान्तरनैरपेक्ष्येण तदधिष्ठितशरीरस्पन्दादिकर्तृत्वं दृष्टम्, न बाह्ये स्यान्मृदादिजन्ये घटादौ | सत्यम् | अत एव सर्वदाऽधिष्ठेयत्वेन विश्वं तस्य शरीरमिवानुमीयत इति | अत एव च कार्यदर्शनाज्ज्ञानक्रियेच्छाशक्तिसाकल्यमेवानुमीयते, न कलारागविद्यादिशरीरयोगः, व्यभिचारादिति | सकलो निष्कलश्च विश्वकर्तेत्यग्रे भविष्यति | किञ्चि, अनन्तो ज्ञत्वादिशक्तियोगाद् आत्मवत् | साधितं चात्मनामनन्तत्वं विभुता च भोगप्रकरणे, इत्यतोऽपि विभुः | ननु घटपटादिकार्यबहुत्वं कर्तृबहुत्वाविनाभावसिद्धमित्यत्रापि क्षित्यादिजलान्तानि विश्वशब्द-वाच्यानि बहूनि, कार्यत्वेन हि बहवो विश्वकर्तारोऽनुमेयाः ? सत्यम् | यदि ह्येषामेकभोगप्रयोजनता न स्यात् | प्रतिपादिता च कलोद्वलित-चैतन्यो विद्यादर्शितगोचरः (स्वा० ३२|१०) इत्यादौ | यच्च भिन्नमप्येक-प्रयोजनं तदेकबुद्धिमत्कर्तृजन्यं प्रासादादि निश्चितमिति निर्मुक्तातिशयैश्वर्यः, तस्यैव समस्तविश्वकरणात्; स च शिवः परोपकारायैव प्रवृत्तेः सर्वत्र तद्धर्मयुक्तः प्रमाणसिद्ध इति || १-२ || अत्र सांख्यच्छायया परः- चित्रात् तन्तुगुणाच्चित्रः पटो दृष्टो न शङ्करात् | यथा तद्वज्जगच्चित्रं चित्राद्बीजान्न शङ्करात् || ३ || न पटोपकारकं कुविन्दमपह्नुत्येदं युज्यते वक्तुम्, भूयो विरोधात् | किन्तु सत्यपि तस्मिन् विश्वकर्त्रा शिवेनास्य हेतोर्दृष्टान्ते व्याप्तिरसिद्धेत्यनैकान्तिकता | जगद्विधातुर्मायाख्यस्य गमकत्वमेव | न कार्यमुपादानकारणं व्यभिचरति यतः || ३ || नैष दोषः - कुविन्दबुद्धिकर्मभ्यां न विना पटकारणम् | दृष्टं तन्तुसमाख्यातमुपादानमचेतनम् || ४ || यद्वत् तद्वज्जगद्बीजमुपादानमचेतनम् | ज्ञानक्रिये महेशस्य परित्यज्य न कारणम् || ५ || उपादानकारणमपि तन्त्वादिकं विशिष्टज्ञानक्रियायुक्तपटादिकर्तारं विना न स्वकार्यं कुर्वद् दृष्टमिति कार्यमात्रमुपादानकारणवत् कर्तृमात्रेण व्याप्तं सिद्धमेवेति विश्वस्याप्युपादानकारणवत्त्वेन प्रत्युत कार्यपूर्वत्ववत् कर्ता साध्यत इति नानैकान्तिकता || ४ -५ || अधुना मीमांसकदृष्ट्या सिद्धसाधनम् - आहापरो जगच्चित्रं वैचित्र्यात् कर्मणो भवेत् | फलं च कर्मतः पुंसां किमत्रेश्वरकारिता || ६ || कार्यत्वात् तत्र कर्तृमात्रमनुसन्धेयम् | भवद्भिश्च धर्माधर्मात्मकं कर्मैव कृष्यादिकर्मवत् कार्यजनकमङ्गीकृतमिति किमन्यदनुमीयते || ६ || सत्यमेतत् तथापीदं कर्मदृष्टमचेतनम् | कृष्यादिवत् तु कर्तारं प्रज्ञावन्तमपेक्षते || ७ || दृष्टमपि कृष्यादिकं कर्म न तु बुद्धिमत्कर्त्रा विना फलजनकं पुंभ्यो भोगानाहृत्य दातुं समर्थं दृष्टमिति धर्माधर्मात्मकमपि कर्मत्वात् स्वफलदानाय ज्ञानातिशय-युक्तं प्रत्युत तमेव विश्वकर्तारमसिद्धं साधयतीति न सिद्धसाध्यता | तत्र दृष्टे सति नादृष्टकल्पना युक्तेति || ७ || अपरे ब्रुवते कर्तृ बहुधा चेतनैर्युतम् | पुम्भिरेव भवेद् बीजं किं हरेणेति तन्नहि || ८ || कायिकव्यापारादौ कृष्यादाविव बहुधा चेतनैर्दृष्टैरेव पुरुषैर्युक्तं जगद्बीजं सर्वं कलादिकार्यं बहुकर्तृतया करिष्यतीति दृष्टहान्यदृष्टपरिकल्पनाभ्यां न कर्त्रन्तरसिद्धिः | तन्नहीति तन्न युक्तमित्यर्थः || ८ || यस्मात् तयोः प्रकृतिपुरुषयोः संबन्धमात्रं वा पुंसां कलादिकार्यकरणहेतुः, विशिष्टो वा भोग्यभोक्तृलक्षणः संबन्धः ? तत्र - सामान्यो यदि संबन्ध उत्पत्तौ कारणं तयोः | ततः कलादिकार्यस्य नित्योत्पादः प्रसज्यते || ९ || व्यापकत्वात् प्रकृतिपुरुषयोः कैवल्यावस्थायामपि संयुक्ततया संबन्धमात्रस्य भावात् | कलादिकार्यकरणोत्पादे सत्यनिर्मोक्षप्रसङ्गः || ९ || अथ द्वितीयः पक्षः - विशिष्टश्चेत् तयोर्योगो वक्तव्यं तस्य कारणम् | येन नाकस्मिकं कार्यं दृष्टं क्वचन किञ्चन || १० || प्रकृतिर्हि न प्रकृतिस्वरूपतया भोग्या, नापि पुरुषः स्वरूपेण भोक्ता, मोक्षाभावप्रसङ्गात् | अपि तु कलादिकार्यद्वारेण, तत्संबन्धस्य हि कलादिजननात् | जन्यस्य संयोगात्मकस्य तयोर्भोग्यभोक्तृरूपस्य संबन्धविशेषस्य कर्ता वाच्यः | येन नाकर्तृकं कार्यं संभवतीत्युक्तम् || १० || ननु तयोरेवात्र कर्तृत्वम्, किमन्येन? तन्न, यतः - पुरुषो न स्वतस्तावद् बीजं नो याति तं प्रति | पुरुषस्याशक्ततया प्रकृतेः स्वतः कार्यकरणकलादिनिर्माणे सामर्थ्यादृष्टेः, प्रकृतेश्चादृष्टतया विशिष्टमेवंविधं कर्मनिमित्तं पुरुषाय कार्यकरणं स्यादिति ज्ञानाभावाद् भोह्यभोक्तृसंबन्धे न कर्तृकता, किन्तु संबन्धमात्र इति || तस्माद् योगे वियोगे वा महेशः कारणं तयोः || ११ || तस्माद् भोगमोक्षसाधनदर्शनान्यथानुपपत्त्या सर्वज्ञः सर्वकर्ता परमेश्वर एव, नान्यः || ११ || तत्र लोकायतभूमिकया परः - स्वभावतो जगद्बीजं जगत्कर्तृ हरेण किम् | स्वभाव एव वक्तव्यो गत्वा दूरमपि त्वया || १२ || परमेश्वरमपि कल्पयित्वा तस्य जगत्कर्तृत्वस्वभावो भवद्भिः कल्पनीयः | तद्वरं प्रकृतेरेवोभयवादिसिद्धाया तजत्कर्तृत्वस्वभावः कल्प्यताम् | एवं च न बह्वदृष्टं कल्पितं भविष्यतीति || १२ || तदयुक्ततरम्, तयस्तस्य प्रकृतिलक्षणस्य जगत्कर्तुः- स्वभावः प्रतिपत्तव्यः किंविशिष्टो जगत्कृतः | ननु कोऽयं प्रश्नो जगत्कर्तृलक्षण एव स्वभावस्तस्य? सत्यम्, किन्तु- व्यापारः परनुन्नस्य स्वतन्त्रस्याथवा बुधाः || १३ || जगत्कारणात्मा तस्य स्वभावः किं बुद्धिमत्कर्तृप्रेरितस्य केवलस्य वा ? तत्र - स्वतन्त्रस्येति पक्षेऽस्मिन् न मानमिति साधितम् | अचेतनस्य कर्तृत्वपक्षे न प्रमाणमस्तीति साधितं पूर्वमेव || कथं साधितम् - स्वतन्त्रं कार्यकृद् यस्मान्नोपादानमचित् क्वचित् || १४ || अथ द्वितीयः, स च युक्त एव- प्रज्ञावच्छक्तिनुन्नस्य व्यापारो मानसाधितः | प्रज्ञावतः क्रियाशक्त्या प्रेरितस्य जगत्करणे व्यापारः, तस्य प्रमाणसिद्धत्वादिष्यत एव || ततश्च - प्रज्ञावान् प्रेरकस्तस्य यः स विज्ञेय ईश्वरः || १५ || यश्चेतनः स्वशक्त्या तत् प्रेरयति स एव ईश्वरः सिद्ध इति न स्वभाववादः | यद्येवं क्रियाशक्तिमात्रमेवात्र तत्प्रेरकमस्तु, किमीश्वरेण? तस्यापि तया विना कर्तृत्वासिद्धेः | यदाहुः- या त्वं कर्तुः क्रियाशक्तिरीश्वरस्य यया विना | तस्यापि कर्तृता नैव चण्डि तस्यै नमोऽस्तु ते || १५ || इति | इच्छाशक्तिः पराशक्तिः प्रकॢप्ता नान्य ईश्वरः | प्रवर्तते यदुद्रेकाद् दिवाकाले निशान्विते || १६ || सुप्ता काल इहान्ते सा निर्व्यापाराज्जगन्निधौ | यद्यस्मात् सैव शक्तिः प्रकृत्यधिकरणा प्रेरणोत्तरं सोद्रेकात् सामर्थ्यलक्षणान्मायातो जगत्करणाय प्रवर्तते, इति नेश्वरोऽन्यः || १६ || तदयुक्तम् - उद्रेके कारणं तस्य नान्यदस्ति महेश्वरात् || १७ || जडस्य स्वयं प्रवृत्तावप्रवृत्तौ वा सामर्थ्यं नास्तीत्युक्तम्, अतोऽन्यथानुपपत्त्या ज्ञानातिशययुक्तः परमेश्वर एवोद्रेदे तस्याः कारणम् || १७ || ननु सैव सर्वज्ञा भविष्यति - सर्वज्ञा सैव चेन्नाम्नि विवादो न च वस्तुनि | यद्येवं नाम्नि विवादः, न च नामभेदाद् वस्तुभेद इति ततो व्यतिरेकस्तस्याः प्रकल्पित एवास्तु | तर्हि सर्वज्ञत्वादिधर्मिका प्रकृतिरेवेश्वर इति वेदान्तविदः || परात्मनो महेशात्तु दृक्क्रियाशक्तिशालिनः || १८ || चेतनाचेतनं विश्वं भोक्तृभोग्यविभागतः | उत्पत्स्यते ततोऽन्येन जगदीशेन किं फलम् || १९ || भोक्ता चापि स एवैको वरमङ्गीकृतो विभुः | भोक्तृभोग्यादिभेदभिन्नाच्चेतनाचेतनाद् विश्वलक्षणात् कार्यादनुमीयमानं सर्वज्ञानक्रियायुक्तं कार्यद्वारेण भोक्तृभोग्यादिस्वभावमेकमेवाद्वितीयं परमात्मसंज्ञमी-श्वरलक्षणमुपादानमनुमेयमित्यद्वैतसिद्धेर्न भिन्नेश्वरकल्पना युक्तेति || १८-१९ || ननु चेतनानां नित्यत्वेन प्राग् भोगप्रकरणे प्रतिपादितत्वात् कार्यत्वमसिद्धम् ? न, अनेकान्वितत्वेन कार्यत्वसंभवात् | अचेतनानामिव चेतनानामपि चिदन्वयादुपादानकारणं चेतनं सिद्ध्यत्येव | तदप्यनुपपन्नम्, यतः - चिदचिद्विश्वसंभूतिरात्मनो यदि सोऽपि हि || २० || चिदचिज्जायते यस्मात् कार्यं कारणधर्मगम् | परमात्मनः सकाशाद् यदि चेतनाचेतनं विश्वमुत्पद्यते, ततः सोऽपि परमात्मा चेतनाचेतनस्वभावो भवेत् | उपादानकारणस्वरूपानुगता एव कार्याणां मूर्तिविशेषा हेममृदादिजन्यघटादीनां सिद्धा यतः || २० || ततश्च - विरुद्धावेककालस्थौ धर्मावेकाश्रयं गतौ || २१ || इतरेतरनाशात् तौ कुरुतो लोपमात्मनः | विरुद्धयोः परस्परोपमर्देनैवात्मलाभाद् घटतदभावयो-रिव चेतनाचेतनयोरेकत्रैकस्मिन् काले न संभवः | अथ केनचिद् भागेन चेतनोऽसौ केनचिन्नेत्युच्यते, यद्येवं सभागत्वे सति घटादिवत् कार्यत्वात् परमकारणत्वायोगः || २१ || अपि च - उपादानत्वतो मृद्वत् परमात्मा न चेतनः || २२ || उपादानकारणमचेतनं मृदादि निश्चितमिति परमात्मनोऽप्यचेतनत्वम्, उपादान कारणत्वात् | चेतनत्वे वा नोपादानकारणत्वमिति || २२ || किञ्च - तदुत्थाश्चापि भोक्तार उत्पाद्यत्वाद् घटादिवत् | उपादानकारणादुत्पद्यमानं घटाद्यचेतनमेव सिद्धमिति परमात्मलक्षणादुपादानकारणादुत्पद्यमाना भोक्तार आत्मानोऽप्यचेतनाः प्रसज्यन्ते भवताम् | चेतनाश्चैते यथा स्वपरग्राहकत्वेन स्वसंवेदनसिद्धा इति न तत्रोत्पन्नाः, तत् परमात्मवन्नित्या इति | नन्वन्वयादेषामचेतनानामिव कार्यत्वमुक्तम्, तन्न युक्तम्, अनन्वयादिति | न चात्मन एवात्मा ग्राह्यो भवति, तत्र तस्य व्यापारविरोधात् | अपि तु ग्राहकत्वेनैव प्रत्यग्रूपतया सर्वदा भासत इत्युक्तमस्माभिः परमोक्षनिरासकारिकावृत्तौ विस्तरेण | तत्रैवावधार्यम् || ततश्च - अचित्प्रसवधर्मी यत् परमात्मा मृदादिवत् || २३ || प्रज्ञावत् क्षोभकापेक्षः स्वजन्यजननाय तत् | यद्यस्मात् परमात्मन उपादानकारणत्वेनाचेतनत्वमुक्तम्, तत्तस्मादेव स्वकार्यनिष्पत्तये मृदादिवद् बुद्धिमत्कर्तृप्रेरितत्वमस्याभ्युपगन्तव्यम् || २३ || एवमद्वैतानुपपत्तिः - तस्माद् भोक्ता जगद्बीजं महेशश्चापि शक्तिमान् || २४ || पृथक् पृथग् विनिश्चेयाः प्रोक्तदोषोपशान्तये | तस्माद्भोक्तारोऽनुत्पन्ना एव, जगन्निधिश्च जडः, जगत्कर्ता सर्वज्ञत्वादिधर्मयुक्तो महेश्वरश्च परस्परं भिन्ना एव नित्या अभ्युपगन्तव्याः | तदुक्तं तत्त्वत्रयनिर्णये - शम्भुः पुरुषो माया नित्यं विभु कर्तृशक्तियुक्तं च | सुप्तेऽपि विकृतिजाते त्रितयं जागर्ति तत्त्वानाम् || (श्लो० ३) इत्युपादानकारणादन्यः परमेश्वरः सिद्ध इति न दोषः कश्चित् | नन्वपरिणामिनी शक्तिः, तत्कथं शिवशक्तेर्ज्ञानक्रियाभेद उपपद्यते? सोऽपि न वास्तव एव | तथा हि - सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः || २५ || यदि तु ज्ञानशक्तेरन्या क्रियाशक्तिः स्यात्, जडत्वाद्वामादि- भेदपरिणामतश्चास्या मायाया इवेश्वरसमवायो न भवेत्, अपरिणामित्वात् तस्याः, इत्यकर्ता क्रियाशक्तिविकलत्वादीश्वरः प्रसज्यते | न च कर्त्रा बिना विश्वकरणमुपपद्यत इत्यवश्यं सर्वज्ञानक्रियाशक्त्योरैक्यमभ्यपगन्तव्यम् | ननु ज्ञेयकार्ययोर्-भेदात् कथं न शक्तिभेदः ? न, तयोरप्यभेदात् | नहि ज्ञेयत्वं कार्यतामतिवर्तते, वस्तुस्वभावत्वे हि तस्य सर्वेषां सर्वज्ञताप्रसङ्गः | न च कार्यत्वं ज्ञेयतामिति न वास्तवो ज्ञानक्रियाशक्त्योर्भेदः, अपि तु कल्पित एव || २५ || तथैव च क्रिया - त्रिधैव शक्तिर्वामाद्या गीता व्यापारभेदतः | वामाद्यापि क्रियाशक्तिर्व्यापारभेदेनैव त्रिधा भिन्ना गीता न वस्तुतः - वामा ज्येष्ठा च रौद्री च शक्तित्रयमतः परम् इति | अन्यथा हि ज्ञेयभेदेन भेदात् प्रत्यर्थं प्रत्यायकभेदकल्पनया प्रतिपरमाणु ज्ञानभेदप्रसङ्गेन तासां नैरात्म्यप्रसङ्गः | तद्यथैवानेकपदार्थावलोकनमेकयैव ज्ञानशक्त्याऽनुभवसिद्धं प्रकाशयितुं शक्यम्, एवमुद्युक्तरूपायाः क्रियाशक्तेरनेककार्यकरणं सिद्धमबाधितमिति तद्भेदोऽपि व्यापारभेदात् कल्पितः || व्यापाराणां तर्हि कथं भेदः ? इत्युच्यते - क्रियया मलिनान् पुंसो निरुणद्धि महेश्वरः || २६ || अनादिमलरुद्धांस्तान् कर्मयुक्तान् नुदत्यतः | क्रियाशक्त्या तावत् पूर्वमेवेश्वरोऽनादिमलयुक्तान् पशून् निरुणद्धि नियमयति, अतो नियमितांश्च कर्मविपाकानुसारेण प्रेरयति || २६ || ननु व्यापकत्वात् तेषां कुतः प्रेरणा ? सत्यम्, किन्तु - ततस्तेषां च नुन्नानां पत्या संजायते भृशम् || २७ || भोगसाधनसम्बन्धयोग्यता भोगलोलिका | विज्ञानकेवलिवैलक्षण्येन तेषां कर्मानुसारेण तेषां कार्यकारणसंबन्धयोग्यतोत्पादनमेवेश्वरप्रेरणमुच्यते || २७ || ततस्तु - शुद्धाशुद्धाधिकारस्थे विद्येशेऽनन्त आत्मनि || २८ || अभिव्यक्तो जगद्बीजं विक्षोभ्य क्रुरुते जगत् | शुद्धाशुद्धाधिकारिणं मन्त्रेशनायकमनन्तं प्रेर्यं कृत्वा मायातो जगत्करोति पतिः | यच्छूयते - विद्याराजाधिराजेशो जगद् भ्रामयतीच्छया इति || २८ || तदनु च - जगतानेन संयोज्य तान् पुंसो लोलिकावतः || २९ || भोगार्थं साधनाकारां करोति स्थितिमीश्वरः | कर्मानुरूपं कार्यकरणैस्तान् पशून् संयोज्य तेषां भोगार्थं साधनाकारां स्थितिं करोतीश्वरः || २९ || ततश्च - स्थित्यन्ते सोऽपि संसारे विश्रमार्थं प्रधावताम् || ३० || पशूनां प्रकृतीनां च क्षमत्वोत्पादनाय च | ततः सर्वोपसंहारं विधत्ते भगवानिति || ३१ || स्थितिसंरक्षणादानभावलक्षणा व्यापारा भिन्नाः कथिताः || ३०-३१ || अनुग्रहमपि विधत्ते - मलस्वशक्तिरोधान्ते दीक्षाशक्त्यैव मुञ्चति | वक्ष्यमाणवद् यदैव मलस्येश्वरशक्तेश्च रोधाधिकारो निवर्तते, तदा दीक्षयैव पशून् मोचयति || वामा ज्येष्ठा च रौद्री च स्वतोऽभिन्नापि सा त्रिधा || ३२ || रोधविश्लेषहरणैर्विभिन्ना कर्मभिः क्रिया | अथ स्थितिसंरक्षणभावलक्षणानां व्यापाराणां संसाररोधफलत्वाद् रोधो वामाव्यापारः, आदानरूपः संहारो ज्येष्ठाया, पाशहरणात्मकोऽनुग्रहो रौद्र्याः - इत्येतैः कर्मभिरभिन्नापि स्वतः क्रियाशक्तिर्विभिन्ना कथ्यते, न परमार्थत इति सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः (मो० २५ ) इति न दोषः कश्चित् || ३२ || इत्येवं देवदेवस्य सर्वकर्तृत्वमीरितम् || ३३ || एतेन सर्वकृत्त्वेन सर्वज्ञोऽवाप्यते पतिः | ज्ञानं विना कुविन्दादीनां कर्तृत्वादृष्टेर्भगवतः सर्वकृत्त्वतः सर्वज्ञत्वसिद्धिरित्युक्तं प्राक् || ३३ || तथा हि - उपादाननिमित्तैस्तु फलेन च समन्वितम् || ३४ || यथा पटं विजानाति पटकारस्तथा भवः | उपादाननिमित्तैस्तु फलेन च समन्वितः || ३५ || सर्वकर्ताऽपि तत्सर्वं विजानाति यथा स्थितम् | यथैव पटकारस्तन्तुभ्यो देवदत्ताय मूल्यसंसिद्धये तुरीवेमादिभिः पटं कुर्वाणस्त्रिकालामलज्ञानयुक्तः स्वकार्ये सिद्धः, तथैव विश्वकर्ता मायातो विचित्रकर्मनिमित्तं पशूनां भोगमोक्षार्थं विश्वमुत्पादयन् स्वकार्ये त्रिकालामलज्ञानयुक्त एवाऽनुमीयत इति सर्वज्ञत्वसिद्धः || ३४ -३५ || इत्थं सर्वार्थकारित्वाद् द्विरूपा शक्तिरात्मनि || ३६ || कलापिण्ड इवाभाति शक्तिः सा नित्यसंस्थिता | यया युक्तो महेशानः सर्वं वेत्ति करोति च || ३७ || कलावानिति तत्त्वज्ञैः सकलस्तेन गीयते | उक्तवत् सर्वज्ञानक्रियारूपा सैव शक्तिर्नित्याऽनेकरूपेव लक्ष्यमाणा भगवतः शरीरमुपचर्यत इति सकलः कथ्यते शिवः || ३६ -३७ || स एव तु - न कलापिण्डसंबद्धः संबद्धोऽसौ यथा पशुः || ३८ || कदाचिदपि देवेशस्तस्माद् गीतस्तु निष्कलः | पशुवत् कलाद्यात्मकशरीराभावान्निष्कलो भगवानित्युक्तं प्राक् || ३८ || अत्र परः - नन्वस्य निष्कलत्वे तु न ज्ञानं नापि कर्तृता || ३९ || कलाकलापयुक्तानां दृश्यते चिद्वतां यतः | कलादियोग एव पशूनां ज्ञानादिकं दृष्टमिति कलाद्यभावादीश्वरस्य ज्ञानाद्यभावः || ३९ || नैष दोषः - चिद्व्यक्त्यर्थं कलायोगमपेक्षेते सुसंस्थिते || ४० || दृक्क्रिये मलसंरुद्धे नेश्वरे रोधवर्जनात् | उक्तं हि भोगप्रकरणे - पशूनां ज्ञानक्रिये मलरुद्धत्वात् कलादिव्यञ्जकापेक्षे विषयेषु प्रवर्तेते इति | परमेश्वरस्य त्वनाद्यनावृतत्वान्न ते व्यञ्जकापेक्षे इति सर्वदा सर्वार्थे || ४० || अथेशस्यापि सापेक्षे अथाज्ञत्वात् पशुवदीश्वरस्यापि दृक्क्रिये कलादिव्यञ्जकापेक्षे || यद्येवम् - तदाऽसौ जायते पशुः || ४१ || कलादियोगाद् देवदत्तादिवदीश्वरः पशुः प्रसज्यते || ४१ || भवतु वा ? का नः क्षतिः - न चेश्वरं विना कार्यमतोऽन्यो वाच्य ईश्वरः | ईश्वरं विना न विश्वलक्षणं कार्यमुत्पद्यत इति ततोऽन्य ईश्वरो वाच्य इत्यनवस्था || कलाः सृष्ट्वापि तद्युक्तः कार्यकृद् यद्यसौ ततः || ४२ || अत एव कलादिस्वकार्यकरणानि सृष्ट्वा ततस्तैर्युक्तो भगवान् सर्वं कार्य करोतीत्युच्यते || ४२ || यद्येवम् - दृक्क्रिये निष्कलस्येष्टे कलाभिः किं प्रयोजनम् | यथैव कलादिभिरनपेक्षो निष्कल एव स्वात्मनः कार्यकरणानि, तथैव विश्वमपि करोतीति किं तस्य कलादिशरीर-कल्पनयेत्येवमादिविस्तरेण नरेश्वरपरीक्षायां वर्णितमिति || तस्मादलं प्रसङ्गेन भोगमोक्षप्रसाधकः || ४३ || उक्तलक्ष्मा महेशान उपास्योऽयं मुमुक्षुभिः | तत्सर्वज्ञत्वादिलक्षणः परमेश्वर एव पशुभ्यो मोक्षप्रद इति श्रेयोऽर्थिभिः सदैवाराध्यो नान्यः, इत्युक्तः ससाधनो भोगः || ४३ || अथ मोक्षः ससाधन उच्यते- मलादिपाशविच्छित्तिः सर्वज्ञानक्रियोद्भवः || ४४ || मोक्षस्तत्कारणं शम्भुः स्वशक्तिः करणं प्रभोः | पश्चात्मा मोच्यमानत्वात् कर्मकारकमिष्यते || ४५ || नित्यमुक्ततया कर्तुं मोक्षाख्या कर्मगाकृतिः | प्राग् भोगप्रकरणे विज्ञानकेवलिनां मल एव, प्रलयकेवलि-नां मलकर्मणी, सकलानां तु मलकर्ममायालक्षणाः पशूनां पाशाः प्रतिपादिताः | तेषु पाशानां यथा संभवं सर्वेषं विच्छित्तिः सर्वज्ञत्वसर्वकर्तृत्वाभिव्यक्तिश्चात्मनां मोक्षो नाऽन्येषामिवान्यतमपाशविच्छित्तिः, अज्ञत्वम्, अकृतृत्वम्, संक्रान्तिर्वेति वक्ष्यामः | न च तस्य मोक्षस्य आत्मा ज्ञातव्यः इत्यादाविवायं पशुः कर्ता, पशोरीश्वरसंस्कार्यत्वेन सर्वदा कर्मत्वात् | नापिप्रकृत्यादिकः पाशः, किन्तु ईश्वर एव | तस्य च करणं स्वशक्तिर्दीक्षाख्यैव | मुक्तिस्तावत्पाशविच्छित्तिः सर्वज्ञत्वाद्यभिव्यक्तिश्चेति मोच्यगत एव विशेषो मोक्षः, न सांख्यानामिव मोचकगतः, तस्य नित्यमुक्ततया मुक्त्यमुक्त्योर-विशेषप्रसङ्गात् | यदागुः - संसरति भोग्यभावात् तद्विनिवृत्त्या तु मोक्षदा प्रकृतिः | स्वात्मन एव न पुंसो लोपोऽसौ न स्वयं वेद || यत इत्येवं विशिष्टोऽविशिष्टो वा सर्वश्चात्र मोक्षः प्रतिज्ञातः, तस्य साधनमुत्तरं प्रकरणम् || ४४ - ४५ || तत्र तावत् पुरुषकर्तृक एव मोक्ष इति ज्ञानमोक्षवादिनः स्वयूथ्याः - अस्त्वात्मनीनो मोक्षो हि भोगवत् पुद्गलस्ततः || ४६ || मोक्षकर्ता विवेकादिः साधनः स प्रसिद्ध्यति | अस्त्वीशो विश्वकर्ता, पुरुषास्तु स्वकृतैर्धर्माधर्मैः शुभा-शुभं भोगं भुञ्जते नेश्वरकृतैः | ननु तत्रापि परमेश्वरस्या-धिष्ठातृत्वमस्त्येव | भवतु, न पुनः कर्तृतेत्येवं त एवाज्ञान-मलसंबद्धा भ्रान्तितः संसारभाजः सन्तस्तत्प्रतिपक्षाभ्यास-विविक्तज्ञानोदयादज्ञाननिवृत्तौ तेषां सर्वज्ञतादिरूपावाप्तितः स्वात्मकर्तृक एव मोक्षो नेश्वरकर्तृकः || ४६ || तदयुक्तम् - अविवे(को? का)ऽवसायोत्थमज्ञानं विनिवर्तते || ४७ || विवेकज्ञानतो नान्यत् काचादिद्रव्यहेतुकम् | स्वकारणनिवृत्त्यैव तन्निवर्तेत नान्यथा || ४८ || मलश्चाज्ञानहेतुः स्यादज्ञानत्वेऽस्य तुच्छता | अथात्मधर्मो भावः स्यात् तुच्छत्वे तन्निवर्तते || ४९ || ज्ञानादिरफलः पुंसो धर्मत्वेन निवर्त्यते | निवर्त्यत्वे नात्मधर्मः(स्यात्?) तदनादिनिरोधकम् || ५० || चैतन्यस्यात्मनस्तेन निवृत्तिर्दीक्षया ततः | महेशमलमायादिवशगोऽणुः स चात्मना || ५० || कथं तेभ्यस्तदायत्तमात्मानं मोचयिष्यति | अस्यात्ममोचने शक्तिर्विद्यते न यतः स्वयम् || ५२ || पाशानां वश्यतामेति तेनेशो मोक्षकृद् वशी | युक्तं धर्माधर्मकर्तृत्वं पुंसाम्, कलादिभिरीषन्मल-व्युदासेन तत्संबन्धाद् उत्तेजितदृक्क्रियत्वात् | मलादिनिवृत्तौ तु सत्यां तावद् ज्ञत्वमपि तदा येषां न समर्थं दृष्टम्, ईश्वरत्वं तेषां मुक्तौ भविष्यतीत्युच्यमानमतिसाहसम् | ननु प्रमाणसिद्धैव शुक्तिकारजतादिभ्रमेषु ज्ञानादज्ञाननिवृत्तिः | मलं चाज्ञानमिच्छन्ति चात्मनामनादिभवम्, तदयुक्तम्, अज्ञानत्वायोगात् तस्य | न ह्यज्ञानं मलः, अपि त्वज्ञानहेतुः | अज्ञानत्वे तु तस्य आत्मधर्मत्वं तुच्छता वा स्यात्, तुच्छत्वे तु तस्याऽकिञ्चित्करत्वात् तन्निवर्तको ज्ञानादिरफलः, आत्मधर्मत्वे तु तस्य नित्यत्वव्यापकत्वादेरिव निवर्तयितुमशक्यत्वेनानिर्मोक्षः | निवर्त्यत्वे नात्मधर्मतेति वस्त्वन्तरमेव | आत्मनोऽनाद्युपरोध-हेतुत्वादज्ञानहेतुश्चक्षुष इव पटलादिर्मलो वाच्यः | न च द्रव्यस्याज्ञानहेतोः पटलादेरन्यस्य वा ज्ञानान्निवृत्तिर्दृष्टा, प्रतिपक्षत्वाभावात् | कथं तर्हि शुक्तिकारजतादौ ज्ञानान्निवृत्तिः ? उच्यते | द्विविधं ह्यज्ञानम्- प्रागनुभूतसादृश्यस्य बुद्ध्यविवेकाध्यवसायात्मकं शुक्तिकादौ रजतादिज्ञानम्, काचकामलादिद्रव्यजन्यद्विचन्द्रादिविषयं विकल्पज्ञानं च | तत्र पूर्वं नेदं रजतमिति विवेकाध्यवसायज्ञानान्निवर्तते | यत्पुनर्द्रव्यजन्यम्, तस्य स्वकारणद्रव्यनिवृत्त्यैव निवृत्तिः, न ज्ञानात् | प्रतिपादितं तु द्रव्यहेतुकमेवाऽज्ञानमात्मनाम्, नेतरत्, अबौद्धत्वात् तस्येति न ज्ञानात् तन्निवृत्तिसंभवः | पटलादेश्चक्षुर्वैद्यादिवदीश्वरादेव तन्निवृत्तिरितीश्वरकर्तृक एव मोक्षो नात्मकर्तृकः | तथा चोक्तं शाखान्तरे- शिवादेवात्मनां मोक्षः इति | श्रुतिरपि - यमेवैष वृणुते तेन लभ्यः (कण्ठो० २ | २३; मुण्डको ० ३ | २ | ३) इति | अत एव क्रियानिवर्त्यत्वाद् द्रव्यस्येश्वरक्रिययैव मोक्ष इत्युक्तम् - दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि इति, वक्ष्यामश्च || ४७ - ५२ || नन्वीश्वरस्य मोक्षकर्तृत्वमपि कल्पयित्वा पाशानां निवर्तनस्वभावस्तदा कल्पनीयः, तेन विना तस्याप्यसिद्धेः | ततस्त एव तत्स्वभावान्निवर्तमानाः पुंसो मोक्षहेतवो भविष्यन्ति, किमीश्वरस्य कर्तृत्वकल्पनया ? तदयुक्तम्, यतः - न पुंसां मोचने शक्तिः पाशानामपि विद्यते || ५३ || रज्ज्वादिना स्वयं बद्ध्वा विमुञ्चद् दृश्यते यतः | जीवस्य स्वतः प्रवृत्तौ निवृत्तौ वा सामर्थ्यं नास्तीत्युक्तम् | अतः पाशानामपि शिव एव तदाऽपि निवर्तकत्वात् पुंभ्यो मोक्षद इति दृष्टे सति नादृष्टकल्पनेति || ५३ || अत्र परः - ज्ञत्वकर्तृत्वयोर्व्यक्तिं पाशाः कुर्वन्त्यनेकधा || ५४ || मोक्षो व्यक्तिस्तयोरेव मोक्षोऽतः पाशकारितः | दृष्टा हि पाशाः कार्यकरणलक्षणा एव भवावस्थायामात्-- मनामनेकप्रकारां ज्ञत्वकर्टृत्वयोर्व्यक्तिं कुर्वन्ति | मोक्षश्च ज्ञानक्रिययोर्व्यक्तिः ततस्तामपि त एव दृष्टसामर्थ्याः करिष्यन्तीति किं तत्रेश्वरस्यादृष्टस्य कल्पनया || ५४ || तदयुक्तम् - स्वाकाररञ्जितां पाशाः पाशवृत्त्यनुरागिणीम् || ५५ || क्रमान्वितां विनाशार्थां व्याहताअमल्पगोचराम् | तयोर्व्यक्तिं प्रकुर्वन्ति निःसंज्ञत्वाद् भवेरिताः || ५६ || शक्नुवन्ति न मोक्षाख्यां येनास्याः सा विलक्षणा | यो हि यथाभूतव्यञ्जकशक्तियुक्तः प्रदीपादिर्व्यञ्जकः सिद्धः सोऽप्यन्यत्राप्यदृष्टे विषये तथाभूतशक्तिरेव प्रतीयते | कार्यकरणादिलक्षणश्च व्यञ्जकः प्रोक्तवदीश्वरप्रेरितोऽपि शरीरादावात्मग्रहहेतुत्वात् स्वाकारेणानुरञ्जितां स्त्र्यादिविषयानुरागिणीं क्वचित् कदाचित् किञ्चिद्विषयां रागद्वेषादिभिञ्च व्याहतां कार्यत्वाच्छरीरादीनां नाशे सति विनश्वरीं भविनां ज्ञानक्रिययोर्व्यक्तिं कुर्वन् दृष्ट इति तथाभूत एव विषये तस्य व्यञ्जकत्वं सिद्ध्यति | न ततोऽत्यन्तविलक्षणत्वाद् ज्ञानक्रिययोर्मुक्तावपि दीपस्येव ब्रह्माण्ड इति न पाशव्यङ्ग्यो मोक्ष इति तद्वैशिष्ट्यं मोक्षे ज्ञानक्रिययोरित्युच्यते || ५५ -५६ || पाशाभिभाविका शक्तिः सिद्धानां दृक्क्रियाभिधा || ५७ || तस्मान्न पाशजालोत्थं जायारागं भजत्यसौ | सर्वपाशनिवृत्त्या सिद्धस्येश्वरवद् ज्ञानक्रियात्मिका शक्तिः पाशविध्वंसिकेति न पशोरिव पाशव्यङ्ग्या शरीरादावात्मग्रहानुरागं भजते || ५७ || किञ्चि - न चोत्पन्नैर्विनष्टैर्वा पाशैः सा भिद्यते यतः || ५८ || ततस्तु पाशचेष्टाभिः शक्तिर्नैवाऽनुरुद्ध्यते | नापि पशोरिव रागादिपाशचेष्टाभिरनुरुध्यमाना स्त्र्यादिविषयानुरागिणी सा सिद्धशक्तिः, पाशप्रलयेऽप्यविकृतेनैव स्वरूपेणेश्वरशक्तिवदवस्थानात् || ५८ || अपि च - शक्तिः सा सर्वविषया न तेनैवाऽल्पगोचरा || ५९ || ज्ञेयकृत्येषु युगपद् भावित्वाअन्न क्रमान्विता | आवरणाभावाच्च सा सर्वदा सर्वत्र सर्वज्ञेयज्ञप्तिकरी सर्वकार्यकरी च, न पशुशक्तिवत् कदाचित् क्वचित् किञ्चिद्विषया || ५९ || सा च व्यक्त्यन्तराभान्न व्यक्त्यन्तरबाधिता || ६० || नाऽपि विद्येश्वराणां शक्तिव्यक्तिरिव परमुक्तिलक्षणेन व्यक्त्यन्तरेण सा सिद्धशक्तिर्बाध्यते, शिवसमत्वेन तस्याः प्रकर्षान्तराभावात् || ६० || किञ्च- प्रवृत्ता सा न साम्येन ज्ञेये कृत्ये च बाधते | न चापीश्वरेच्छया विद्येश्वरशक्तिवत् कार्ये प्रवर्तते निवर्तते वा, शिवसमत्वात् सिद्धशक्तेरीश्वरप्रेर्यत्वस्य सर्वथा निवृत्तेः स्वतः शक्तत्वात् || व्यञ्जयन्ति न तां पाशाः न च भूयोऽभिभूयते || ६१ || शिवेच्छाप्लुष्टबीजैस्तैः शक्तिस्तेनाविनश्वरी | येन न वक्ष्यमाणवत् पाशैः कार्यकरणैः पशुशक्तिवद् व्यज्यते, शिवशक्त्याभिव्यक्तां तां प्रति दग्धबीजैश्च पाशैर्न पुनरभिभूयते, सिद्धशक्त्यभिव्यक्तिस्ततो न विनश्वरी पशुशक्तिव्यक्तिरिवेति प्रकारान्तरेण नश्वरतापरिहारः || ६१ || व्यङ्ग्यव्यक्तिर्भवेत् तावद् यावद् व्यञ्जकसंनिधिः || ६२ || सिद्धशक्तावयं न्यायो विद्यते नेति चोच्यते | अभिव्यक्तिकरी शैवी शक्तिस्तत्सन्निधानताम् || ६३ || धाता सततमित्यस्मादपि सैद्धी न पश्यति | यदुक्तं प्राक् सिद्धानां सर्वथा ईश्वराधिष्ठानं निवर्तत इति ततो व्यञ्जकेनानधिष्ठितत्वाद् दीपेनानधिष्ठानाद् घटादेरिवाभिव्यक्तिर्निवर्तमाना विनाशिन्येव | नाऽयं दोषः | यतो न दीपवद् व्यङ्ग्यस्याऽऽवरणनिवृत्तिमनात्यन्तिकीं कुर्वन् परमेश्वरः शक्तिव्यञ्जक इष्टः, येनैष दोषः स्यात् | स त्वात्यन्तिकीमावरणनिवृत्तिं पटलानामिव चक्षुर्वैद्यः कुर्वन् सिद्धानामात्मसदृशीं सिद्धान्तशक्तिव्यक्तिकरीं सिद्धशिवसमवायाच्छैवीं दृक्क्रियाशक्तिमभिव्यक्तितः सन्निधापयतीति कुतः परस्तस्या व्यञ्जकापेक्षा, शिवशक्तेरिव स्वतः सर्वज्ञस्वरूपत्वादिति | न केवलं पाशैरव्यङ्ग्यत्वात्, अस्मादपि कारणान्न विनश्वरीति | अत एव न कार्यत्वेनानित्यत्वम्, मुक्तेर्व्यङ्ग्यत्वात् | पूर्वव्यवस्थिताया एव ज्ञानादिशक्तेरावरणव्युदासेनाभिव्यक्तितः सर्वविषयता न स्वरूपप्रतिष्ठितिरेवेत्युक्तः सर्वविलक्षणो मोक्षः || ६२ - ६३ || इत्थं विलक्षणायास्ते सिद्धशक्तेर्न पाशकाः || ६४ || व्यक्तिं कर्तुं समर्थास्तु निवृत्तैस्तैर्यतो भवेत् | उक्तं तावत् पाशव्यङ्ग्यायाः पशुशक्तितोऽत्यन्तविलक्षणत्वात् पाशाभावेऽपि भावाच्च मुक्तौ सिद्धशिवशक्तेर्न पाशव्यङ्ग्य-त्वं सिद्ध्यतीति ईश्वर एव तद्व्यञ्जको मोक्षहेतुः || ६४ || ननु योगश्चित्तवृत्तिनिरोधः (यो० सू० १|२) इति योगादिसंस्कृत-मन्तःकरणमेव मोक्षहेतुरात्मनाम्, नेश्वर इति सांख्यः, तदयुक्तम् - योगो ज्ञानं तपःपूर्वं भोगसाधनचेष्टितम् || ६५ || प्रोक्तन्यायेन पाशत्वान्न तन्मोक्षस्य साधनम् | चित्तस्योक्तवज्जडत्वाद्वायोरिव योगादिसंस्कृतेनैव स्वप्रवृत्तिरूपतया आत्मनो माया विवर्तयितव्या, नान्यथेति | विवेकाभावान्निवृत्तौ सर्वदैव निवर्तेत, न वा कदाचिदित्यनिर्मोक्षः सर्वदा वा मोक्ष एवात्मनो भवेत् | कश्चात्र योगादेरनुष्ठाता यस्य शास्त्रोपदेशः | न तावदात्मा, निष्क्रियो भवद्भिरसावभ्युपगतो यतः | नापि चित्तम्, जडत्वात् || ६५ || अपि च - सुतीव्रा अपि नोपायाः स्वात्मविच्छेदकारकाः || ६६ || असिधारा सुतीक्ष्णापि न स्वात्मच्छेदिका यतः | न च चित्तस्य स्ववृत्तिनिरोधार्थं योगाद्यनुष्ठानं स्वत एवोपपद्यते, स्वात्मनि क्रियाविरोधादिति | तस्मादपि प्रवृत्तिनिवृत्तिहेतु-रीश्वर एव सर्वत्र मोक्षकारणमिति | नन्वीश्वरोऽपि कथं न सर्वेषां युगपन्मोक्षहेतुः ? अपेक्ष्याभावात् | न मलपरिपाका-पेक्ष्यत्वात्, अन्यथा यथादृष्टनियमानुपपत्तेः | तदुक्तम् - क्षीणे तस्मिन् यियासा स्यात् परं निःश्रेयसं प्रति (स्वा० ३२ | १७ ) इति | मलस्तु तथास्वभावः कल्प्यमानो जडत्वात् कस्यचित् कदाचिच्च तथा परिणमन् नोपालम्भमर्हति | यदुक्तं तत्त्वत्रयनिर्णये - विनिवर्तते निरोधात् पुंबलतः परिणमन् मलः कालात् | परिणतिविशेषयोगात् स कदाचित् कस्यचित् कथञ्चिच्च || (श्लो० १२ ) इति || ६६ || यद्येवम् - रोधशक्त्यधिकारस्य काले याते स्वयं त्वणोः || ६७ || निवृत्ते तु मले शेषः पाशव्रातो निवर्तते | तन्निवृत्तौ स्वयं शुद्धा दृक्क्रियाशक्तिरात्मनि || ६८ || व्यज्यते सर्वविषया नैवाऽतो मोक्षकृद् भवः | पुंसां ज्ञानादिबलाद् रोधशक्तेर्मलस्य परिपाकात् तद्रोधाधिकारकालोपक्षयतः स्वयमेव निवृत्ते तस्मिन्निमित्तेऽन्य-पाशनिवृत्तौ ज्ञानक्रियाशक्तिस्तेषां शुद्धत्वात् स्वयमेव मुक्तौ व्यक्तिमेष्यतीति किमीश्वरस्य कर्तृत्वेन | अस्तु तर्हि स्वतन्त्र एव परमेश्वरो मोक्षहेतुः | ततो नैष दोषः, नाप्यतिप्रसङ्गः, स्वेच्छया नियमितत्वात् | यदाह विद्याधिपतिः - स्वतन्त्रः शक्तिपातोऽसौ शैवः पशुविमोक्षकृत् | सापेक्षत्वे हि तस्य स्यादशक्तः परमेश्वरः | इति | न, तस्यासंभवात् || ६७ - ६८ || सत्यां स्थितौ न संहारं संहारे वा न च स्थितिम् || ६९ || भोगं च कर्महीनस्य कुरुते न सदेश्वरः | स्वातन्त्र्ये हि कर्माद्यनपेक्षणादकस्मात् सदैव जगतः सृष्टिसंहारौ, कर्महीनस्यापि भोगम्, दुष्कृतैरपि मोक्षम्, मुक्तस्यापि संहारमीश्वरः कुर्यादित्युन्मत्तचेष्टावदस्मञ्जसं जगद् भवेत् | ततश्च न कश्चिद्भोगाय मोक्षाय दुष्कृतपरिहाराय प्रवर्ततेति तदुपदेशशास्त्राणां सर्वेषामानर्थक्याल्लोकायत एवोपास्यो भवताम् | तस्मादसमञ्जसपरिहाराय कर्मादिपाकसापेक्षः सर्वकर्ताऽभ्यपगन्तव्यः | न च तदपेक्षित्वमस्वातन्त्र्यम्, अपि त्वीश्वरान्तरायत्तता | सा च तस्य परमेश्वरान्नास्तीति स एव स्वतन्त्रः | सत्यां स्थितौ न संहाराद्यकस्माद् भोगादिकं च कर्महीनादेर्न कदाचित् करोतीति सापेक्ष एव शक्तिपात इति | यद्येवं कर्मसाम्यापेक्षो भविष्यतीति | न | यथा भोगं कर्महीनस्य कुरुते न सदेश्वरः, तथा मलपरिणतिहीनस्य न च मोक्षम्, मलपरिणत्यपेक्षित्वान्मोक्षस्य, अन्यथा मलकल्पनानर्थक्यात् | साधितं चात्मनां कर्मव्यतिरेकेण मलोऽस्तीति प्राग् भोगप्रकरणे- मलापरिणतेः कर्मक्षयाच्च विज्ञानकेवलितैव तेषाम् इति | तस्मादवश्यं मलपरिपाक एव शक्तिपाते करणं वाच्यम् || ६९ || ननु स च मलः परिपाकात् स्वयमेव निवर्तमानः पुंसां मोक्षकारणं भविष्यतीति नार्थस्तत्र शिवशक्तिनिपातकल्पनयेत्युक्तमेव, तदयुक्तम्, यतः - चेतनाचेतनाः सर्वे वश्यास्तस्येति निश्चितम् || ७० || प्रवृत्तौ वा निवृत्तौ वा तेषां हेतुरतो हि सः | विदार्य शक्तिशूलेन पाशजालमणोः शिवः || ७१ || सर्वज्ञानक्रियारूपं व्यनक्ति द्विविधं मलम् | जडस्य स्वतः प्रवृत्तौ निवृत्तौ वा सामर्थ्यं नास्तीत्युक्तम् | अतः परिपक्वोऽपि मलो द्रव्यत्वात् पटलादिवद् बुद्धिमत्कर्तृनिवर्त्य एवेति ईश्वर एव तन्निवृत्तिपूर्वं पुंसां सर्वज्ञत्वादिरूपं व्यञ्जयन् मोक्षहेतुर्नापर इति || ७०-७१ || अधुना तु तेषामीश्वरः सर्वेषां किं साक्षान्मोक्षहेतुरुत केषाञ्चिद् व्यवधानेनेति रुरुसिद्धान्तसंसिद्धः क्रमोऽत्र कथ्यते - निष्कलान् सकलानष्टौ सर्गादाविच्छया पतिः || ७२ || मन्त्रेश्वराननन्तादीननुगृह्णाति पुद्गलान् | सर्गारम्भ एवाष्टावणूनकलान् परिपक्वमलविच्छेद-पूर्वकं सर्वज्ञानक्रियाभिव्यक्तिलक्षणेन मोक्षेणानुगृह्य साक्षाद् भवाननन्तादिसंज्ञकान् विद्येश्वरान् करोतीत्यणुपक्ष एव विद्येश्वरादिविषयो न शक्तिशम्भ्युपक्षाविति बोद्धव्यम् || ७२ || अतोऽनन्तरम् - कोटिसप्तकसंख्याकान् निष्कलान् सकलानणून् || ७३ || सर्वज्ञानक्रियाव्यक्त्या मन्त्रानीशः करोत्यतः | तथाभूतानेवाणून् सप्तकोटिसंख्यायुक्तान् तथैव साक्षादनुगृह्य भगवान् मन्त्रान् विदधाति || ७३ || मन्त्रमन्त्रेश्वराणां मुक्तत्वात् किं शिवसमत्वमेव, नेत्याह - रुद्रशक्तेस्तु जन्यत्वात् प्रेर्यत्वाच्चाप्यधस्त्विदम् || ७४ || मन्त्रमन्त्रेश्वराख्यानमाख्यातं तत्त्वयोर्द्वयम् | रुद्रस्य भवतः शक्तिर्वामा ज्येष्ठा च रौद्री चेति | तस्याः शक्तेरधो विद्याविद्येश्वरलक्षणमेतत् तत्त्वयोर्द्वयं वेदितव्यम् | यतस्तयोत्पाद्य स्वाधिकारे प्रेर्यत इत्याख्यातं शास्त्रे - शिवेच्छा-विधिचोदितम् इति | प्रेर्यत्वाच्चैषां सर्वज्ञत्वेऽप्यधिकारमलयोगतः परमेश्वरापेक्षया क्रियाशक्तिः क्रमेणांशेन न्यूनेति - विद्याविद्येशत्वं चापरमुक्तिः परेह शिवसमता (श्लो० ५१) इति तत्त्वसंग्रहादावुक्तम् | अस्माच्च न्यूनत्वादेषां शक्तितत्त्वादधोभावः, न तु देशकृतः, व्यापकत्वादात्मनाम् || ७४ || अत एव - मायोर्ध्वं निष्कलत्वाद्यं मायोपर्यधिकारतः || ७५ || तदेव प्रक्रियाशास्त्रे दीक्षार्थं चिन्त्यते बुधैः | व्यापकमेतत् तत्त्वद्वयं मायोपर्यधिकारतः कलादिकार्य- करणवर्जितत्वाच्चाध्वशास्त्रे मायोपरि चिन्त्यत्वेन पठ्यते || ७५ || तथैव - सर्वे चावरजाः प्रेर्याः प्रेरका ह्यग्रजाश्च ये || ७६ || पतयोऽपतयो मन्त्रा ऊर्ध्वं मन्त्रेश्वरा मताः | मन्त्रपतित्वान्मन्त्रेभ्यः पूर्वमुत्पन्नत्वाच्चानन्तादि-विद्येशानां तेभ्य ऊर्ध्वमुपरिभावो मन्तव्यः | तत्प्रेर्यत्वेन ततः क्रियाशक्तेर्न्यूनत्वं त्वधोभावान्मन्त्राणाम् || ७६ || ततोऽनन्तरम् - कलाः सृष्ट्वा महेशानस्ताभिः संयोज्य पुद्गलान् || ७७ || अनुगृह्णाति मन्त्रेशान् मायागर्भाधिकारिणः | विद्येश्वराणामधिष्थानेन मायातः कलादितत्त्वभुवन-पिण्डभावसृष्टिं सर्वां कृत्वा ताभिः पुद्गलान् कर्मानुसारेण संयोज्य तेषां मध्यात् परिणतमलानणून् मायागर्भाधिकारि-विद्येश्वरत्वेन साक्षाद् भगवाननुगृह्णाति || ७७ || किमभिधानान् किंसंख्यातान् तानित्याह - मण्डलाधिपतीनष्टौ क्रोधेशाद्यष्टकं तथा || ७८ || इच्छया शतरुद्रांश्च वीरभद्रपुरस्सरान् | क्रोधेश आदौ यस्याष्टकस्य श्रीकण्ठसहितस्य | तथा तत्त्वसंग्रहे - मण्डलिनः श्रीकण्ठाः क्रोधाद्याः (श्लो० ३०) इत्युक्तम् | एवमष्टादशाधिकशतमेषां रुद्राणामनुगृह्णाति || ७८ || अनुग्रहाय जन्तूनां मन्त्राणां हि प्रयोजकाः || ७९ || एते मन्त्रेश्वरास्तस्मान्न मन्त्रोर्ध्वव्यवस्थिते | इत्थं मन्त्रमन्त्रेश्वरयोः पश्चादुत्पत्तेर्मायागर्भाधि- कारित्वादधोभावेऽप्येषामाचार्यादिवत् पश्वनुग्रहाय मन्त्रप्रयोजकत्वान्मन्त्रेश्वरत्वम् | न त्वनन्तादीनामिव मन्त्रेभ्य ऊर्ध्वं स्थितत्वात् || ७९ || किञ्च - अग्रजा निष्कला मन्त्रा एते चैतद्विलक्षणाः || ८० || मन्त्रतत्त्वादधस्तस्मान्मायागर्भाधिकारिणः | मन्त्राणां निष्कलत्वेनोक्तत्वादेषां तु सकलत्वात् तेभ्योऽपि न्यूनशक्तित्वेनाधो मायागर्भ एवाधिकार इत्यधिकारभेदादेवं मन्त्रमन्त्रेश्वरवर्गाः परस्परं शक्तितो भिन्ना एव, न त्वावारकाः | यथा वार्त्तिककार आह - परेण रूपेण निर्विशेषास्-त्रयोऽप्यमी | महाल्पयोनियोगित्वाद् विशिष्यन्ते परस्परम् || इति || ८० || कुत्रैषां वीरभद्रादीनामध्वनि स्थितिरित्युच्यते - मायागर्भाधिकारित्वात् सकलत्वाच्च शासने || ८१ || मायातत्त्वादधस्तस्माच्छिवशक्तिसमन्विताः | यत्तेषां मायागर्भाधिकारः सकलत्वं चोक्तम्, ततो ब्रह्मादिवन्मायातत्त्वादधः कलादिभुवनेष्ववस्थितिः || ८१ || ननु सकलत्वादेषां कलादिसंकोचितदृक्क्रियत्वात् पशुवत् कथं मायागर्भाधिकारे शिवशक्तिसमन्वितत्वमिति ? उच्यते - कलायोगेऽपि नो वश्याः कलानां पशुसंघवत् || ८२ || वश्यास्ताः पशुभिः सार्धं तेषां ते तदुपर्यतः | यतस्तेषां कालादीनां क्रमेणोपर्यवस्थिताः || ८३ || यतस्तेषां पशुभिः सार्धं ताः कलाः प्रेर्यत्वाद्वश्याः, तस्मान्न कलादियोगेऽपि कलावश्यत्वमेषामिति सर्वज्ञता मायागर्भाधिकारश्चाविरुद्ध इति || ८२ - ८३ || मन्त्रैः सार्धं तदीशानां परेषामपरैः सह | आविर्भवत्यधीकारः स्वशक्तिव्यक्त्यनन्तरम् || ८४ || मन्त्रेश्वराणां चानन्तादीनां परेषां क्रोधादीनाम-परेषां वीरभद्रादीनां च यदैवेश्वरण पाशविच्छेदपूर्वं ज्ञानक्रियाशक्तिरनुरूपाऽभिव्यञ्जिताऽऽसीत्, तदैवानुरूपमधिकारं करोति न कालान्तरं प्रतीक्षते || ८४ || मन्त्राणां तु - मायाबन्धविमोक्षाय कारणादात्मनो व्यधात् | मन्त्रकोट्योऽभवन् सप्त सप्तेति नियमः श्रुतेः || ८५ || कालान्तरेण तेषां कार्यकरणमिति भेदः, स तेषामधिकारः किं नित्य एव ? नेत्युच्यते - मन्त्राणां मन्त्रनाथानां कृतार्थानामपीदृशाम् | व्यापारपरतन्त्राणामधिकारस्तु सावधिः || ८६ || कृतार्थानां मुक्तानामप्येषां पशुवद् व्यापारपरतन्त्रत्वाद् वक्ष्यमाणाऽवध्यन्तोऽधिकारः || ८६ || अधुनाऽनन्तादीनामपि परस्परं प्रधानाप्रधानभावः कथ्यते - सूक्ष्मादिनायकोऽनन्तः स तद्युक्तः शिवेरितः | उत्पतिस्थितिसंहारसंरोधानुग्रहार्थकृत् || ८७ || यथा किलानन्तः शिवात् कलया क्रियाशक्त्या न्यूनः स्थित्यादीनि कर्माणि शिवाधिष्ठितः करोति, एवमनन्तात् सूक्ष्मः - तेषामनन्तः परमेश्वरः (रौ० सं० २ | १२ ) इति श्रुतेः | तथा सूक्ष्माच्छिवोत्तम इत्यादि सर्वेषां पूर्वपूर्वापेक्षया न्यूनत्वं बोद्धव्यम् || ८७ || अधुना मन्त्राणामधिकारकालः परस्परं वैलक्षण्यं चोच्यते - मन्त्राणां पूर्वमर्धं तु कृतात् सर्गादनन्तरम् | अधिकारस्य वैचित्र्यादनुगृह्य भवेरितम् || ८८ || तत्कालमादृतान् पुंसः कारणानुग्रहेच्छया | कृत्वाधिकारमायाति शिवसायुज्यमच्युतम् || ८९ || सप्तकोटिसंख्यातानां मन्त्राणां पूर्वं प्रकृष्टमर्धमतीव परिपक्वमलत्वाज्जन्मव्याध्याद्युपहतं संसारमवलोक्य तत्संसर्गं पशुप्रयोज्यतां चात्मनः सोढुमक्षमा वयमितीश्वरं विज्ञाप्य तत्प्रेरणयैव विद्यश्वरनियोगमप्यनपेक्ष्य शिवशक्त्या समाहृतानणुंस्तत्कालमेव साक्षात् तत्तक्त्कर्तृतयैव तद्धिया च तत्करणतया चानुगृह्य विचित्रमधिकारं कृत्वा परांमुक्तिं शिवसमत्वं गतम् || ८८ -८९ || द्वितीयार्धस्य का वार्तेत्युच्यते - शिवोऽवशिष्टमन्त्राणां परिवाराङ्गशम्बरान् | सिद्धिमुक्तिप्रसिद्ध्यर्थं मण्डलानि च सृष्टवान् || ९० || अथ शिष्टस्यार्धस्य प्रवृत्त्यर्थं परमेश्वरोऽणुपरिवारकमण्वन्तरं हृदयाद्यङ्गं शक्तियोगं च शम्बरांश्च तद्वाचकान् शब्दान् मण्डलानि च पूजास्थानानि नवनाभादीनि लोकानां हितार्थमकार्षीत् || ९० || अथैषां मन्त्राणां पूर्वेषामिव किमनुग्रहे कर्तृत्वमेव, नेत्युच्यते - ते मन्त्राः सहितास्तैस्तु परिवाराङ्गशम्बरैः | विमुञ्चन्तीतरान् नुन्ना देशिकस्थेन शम्भुना || ९१ || एतेषां परिवारादियुक्तानां दीक्षादावाचार्याधिकरणे- श्वरप्रयोज्यत्वादनुग्रहकरणत्वं सदैव न कर्तृता || ९१ || अधः स्वभुवनाच्चैषां मन्त्रेशा भोगमोक्षदाः | स्वं स्वं ददति जन्तूनामीशशक्तिप्रचोदिताः || ९२ || शेषास्त्वप्रधाना विद्येशा वीरभद्ररुद्रादयः | भुवनेभ्य ऊर्ध्वं शास्त्रविहितेभ्यो यज्जन्तूनां स्वभुवने च केषाञ्चिद् ब्रह्मविष्ण्वादीनामनुग्रहं च कुर्वन्तीति तत्कर्तारो नानन्तादिवद्भुवनसर्गादिकर्तारः || ९२ || मन्त्रमन्त्रेश्वराणामधिकारावधिः प्रतिज्ञात उच्यते - अमी रुद्रास्तु सूक्ष्माद्या मन्त्राश्च शिवतुल्यताम् | सानन्ताः स्वाधिकारान्ते यान्ति मुक्तिं हरेरणात् || ९३ || अत्र सूक्ष्मादीनां च मन्त्राणां च तदीशानामपि वीरभद्रादीनामनन्तोपरमकाल एव सर्वेषां युगपच्छिवसमता परा मुक्तिः | यच्छ्रयते - अनन्तो परमे तेषां महतां चक्रवर्तिनाम् | विहितं सर्वकर्तृत्वकारणं परमं पदम् || (रौ० सू० २ |१३ ) इति | अत एव न तु क्रमेण | यथा वार्त्तिककार आह - अनन्तो परमे स्थाने तत्तु सूक्ष्मोऽधितिष्ठति | पदात्पदं विचरतो ह्येकैकस्य महात्मनः || स्थाने शिखण्डिनस्त्वन्यं रुद्राणां कुरुते शिवः || इति || ९३ || अथानन्तस्य कदोपरम् इत्युच्यते - सृष्ट्यादिपञ्चकर्माणि कृत्वानन्तेश्वरस्ततः | पारतन्त्र्याद् विनिर्मुक्तः प्राप्नोति पतितुल्यताम् || ९४ || यदाऽनन्तेनैकस्मिन् मायासर्गे पञ्चकर्माणि मायासम्बन्धि सृष्ट्यादिपञ्चकर्म निर्वर्तितं भवति, तदा मायाकार्यस्याखिलस्योपसंहृतत्वात् कृतप्रयोजनोऽनन्तो महा प्रलयोपक्रम एव पतिसमत्वं परामुक्तिं गच्छतीति || ९४ || यद्येवमनन्तादीनामुपसंहृतत्वान्मायातः सर्गान्तराणि कथं भगवान् करोतीत्युच्यते - एवं सर्गेष्वतीतेषु भविष्यत्सु च शङ्करः | पुंसो मोचितवानन्यान् मोचयिष्यति चापरान् || ९५ || प्रतिसर्गं पूर्वानेवानन्तादीन् कृत्वा पुंसां भोगं निर्वर्त्य भगवान् मोक्षं करोतीत्यर्थः || ९५ || तदेवम् - आचार्यसंस्थितो देवो दीक्षाशक्त्यैव मुञ्चति | स्वशक्त्योपहृतान् पुंसो मन्त्रसाधनसाध्यया || ९६ || परमेश एव आचार्यस्थो मन्त्रमन्त्रेशव्यतिरिक्तान् दीक्षयैव मन्त्रसाध्यया परिपक्वमलान् पुंसो मोचयतीत्युक्तम् || ९६ || न ज्ञानादिनेति पूर्वप्रतिज्ञातः सर्वोऽर्थो निर्णीतः | यद्येवं मायाञ्जनोत्तरकालं हृतानां कथं मोक्षः ? तेषामप्याचार्याऽधिकरणो भगवानेव दीक्षां करोति, प्रतिभुवनं गुरुणां सम्भवात् | तथाहि - मन्त्रेशा गुरवः पूर्वे रुद्रा देवा मुनीश्वराः | मन्त्रेशैः शासिता रुद्रा रुद्रैर्देवाः सुशासिताः || ९७ || देवैर्मुनीश्वराश्चात्र मुनिमर्त्या मुनीश्वरैः | मनुष्यैर्मानुषास्तद्वद् वर्णसंस्था द्विजोत्तमैः || ९८ || रुद्राः श्रीकण्ठादयोऽत्र | एवं गुरूणां संभवात् तत्तत्कर्तृतयैव सर्वत्र दीक्षया मोक्षः || ९७ -९८ || वर्णसंस्था द्विजोत्तमैरित्युक्तं साध्यते - दीक्षायां साधकत्वे च चतुर्णां वर्णिनामिह | अधिकारो गुरुत्वेन ब्राह्मणस्यैव कीर्तितः || ९९ || साधकदीक्षादौ ब्राह्मणान् (रौरवे इति मतङ्गपारमेश्वरवृत्तौ (क्रि० ५|९३) दृश्यते | मुद्रिते रौरवे नोपलभ्यत इति तत्रत्या टिप्पणी (पृ० ११३, टि० ६) |) क्षत्रियान् वैश्यान् शूद्रांश्चैव इति श्रूयते | अतश्चतुर्णामप्यत्राधिकारः | गुरुत्वे तु- अथाचार्यवरः श्रीमानग्रजन्मा सुपेशलः (स्वा० १५|१) इति श्रुतेर्ब्राह्मणस्यैव || ९९ || ब्राह्मणोऽपि न सर्वो गुरुः, किन्तु - शक्त्यधिष्ठेयनिष्पाद्यसहितं दीक्षितः शिवम् | यो वेत्त्येव नियुक्तः सन् गुरुणा गौरवे गुरुः || १०० || यो दीक्षितः परमेश्वरस्यैता ज्ञानादयः शक्तयोऽनाश्रिता-द्यं कालाग्निरुद्रभुवनान्तं सर्वं तत्त्वभुवनभूतभावा-द्यमेतदधिष्ठेयमेतच्च निष्पाद्यं पशूनां भोगमोक्षावित्येवं परमेश्वरं संहिताभ्योऽवगत्य पदवाक्यप्रमाणैस्तद्विषयमिथ्याज्ञानव्युदासेन निश्चितं वेत्ति, तमेवात्मान्तरपरिग्रहाय दीक्षायामर्चाकरणोपयोगाय च भावयति, स ज्ञाननिष्ठो गुरुणा गुरुत्वे नियुक्तः सन् गुरुर्नान्यः | यदुक्तम् - नाज्ञो भ्रान्तः ससन्देहो गुरुर्भावविवर्जितः | नातत्त्वविदनभ्यस्तकर्ममार्गोऽपि नो मतः || इति || १०० || अथ दीक्षितैः किं बुद्ध्युपारूढः सर्वेश्वरो ज्ञातव्यस्तदनुपारूढो वा ? तत्र - बुद्धिबोधप्रकाश्यत्वं शिवस्यान्यैः समीहितम् | शैवमानमविन्दद्भिः पशुमानानुवासितैः || १०१ || बुद्ध्युपारूढा एवार्थाः सर्वदा पुरुषेण चेत्यन्ते, न तदनुपारूढाः, बुद्ध्यादीनामानर्थक्यप्रसङ्गात् | परमेश्वरोऽपि भिन्न एव तस्याश्चेत्यत इति बुद्ध्युपारूढ एव चेत्यो नान्यथा केवलः | तथा हि - धर्मादीश्वरप्रसादतः कस्यचिद् रजस्तमोमलं परिहृत्य निर्मलतरसत्त्ववृत्तिरेव बुद्धिर्भवति | तत्र परमेश्वरः प्रतिबिम्बवद् वर्तत इति तेनैव चेत्यो नान्येनेति केचित् सांख्यदृष्ट्यनुवासिताः, तन्न, अनैकान्तिकत्वात् || १०१ || तथाहि - आत्माऽप्यविषयो यस्या भोक्ता भोग्यत्वतः कथम् | स्वप्रकाशमसौ देवं प्रकाशयति शङ्करम् || १०२ || नहि यो यश्चेत्यते स सर्वो बुद्ध्युपारूढ एव, बुद्धिभोक्तृत्वादेवात्मनस्तदनुपारूढस्यापि चेत्यताभावादिति व्याप्त्यसिद्धेः कथं वक्ष्यमाणवत् स्वप्रकाशस्येश्वरस्य बुद्ध्युपारोहः सिद्ध्येत् || १०२ || ननु पुरुषो बुद्ध्युपारूढ एव चेत्यत् इति सांख्याः, तथाहि - कपिलब्रह्मणोऽप्यप्रत्यक्षः पुरुष इति दर्पणस्थानीयायां बुद्धौ विषयिविषययोर्द्वयोरपि प्रतिबिम्बकमेलनं भोग इति बुद्ध्यध्यवसित एव सर्वश्चेत्यत इति, तदप्ययुक्तम् - सर्वदोत्पन्नमानोऽसौ पुरुषो नानुभूयते | न सोऽस्थि कालो यत्रायमत्रस्थेनानुभूयते || १०३ || बुद्धिस्थेनापि पुरुषप्रतिबिम्बेन पुरुषो नावैतीति तत्प्रतिबिम्बकल्पनं निष्फलमेव || १०३ || किञ्च - पूर्वापरत्वतो युक्तमात्मबोधस्य तस्य च | उपलभ्योपलब्धृत्दं तदभावादिदं त्वसत् || १०४ || प्रतिबिम्बात्मकत्वादात्मनो विषयत्वं भोग्यता च, तद्विषयत्वाच्च बुद्धिबोधस्य भोक्तृत्वप्रसङ्गः | न चैतद्भवद्भिरभ्युपगन्तव्यमित्यसदेतत् - (पूर्वतनी ७८ पृष्ठस्था द्वितीया टिप्पणी द्रष्टव्या) बुद्ध्यध्यवसितत्वात् पुरुषोऽपि चेत्यते इति || १०४ || अपि च - परिणामी पुमान् भोग्यः प्राप्तस्तद्गोचरो यदि | विपरीता च बुद्धिः स्याद् विरोधश्चापि दर्शने || १०५ || इत्थं बुद्धिविषयत्वेन भोग्यत्वाद् विषयवत् पुंसः परिणामितया बुद्धेश्च भोक्तृत्वान्नित्यत्वं प्रसज्यते भवतामिति दर्शनविरोधः | तस्माद् भोक्तृभोगान्यथाऽनुपपत्त्या पुरुषो बुद्ध्यनुपारूढ एव स्वसंवेदनसिद्धोऽभ्युपगन्तव्यः | कथं तर्हि - व्यक्ताव्यक्तज्ञसंबुद्धिः (भो० का० ६०) इत्यादिना प्राग् भोगप्रकरणे सिद्ध्यादिबुद्धिबोधप्रकाश्यः पुमानुक्तः ? न प्रकाश्यतया, किन्तु कारकत्वेनेत्यविरोधः | व्यक्त्याव्यक्तविषये हि बुद्धिबोधे तत्प्रकाशकतयाऽत्यन्तविविक्तः पुरुषः स्वयमवभासत् इत्युक्तम् - तदा द्रष्टुः स्वरूपेऽवस्थानम् (यो० सू० १| ३) इति || १०५ || अस्त्वेतत्, ईश्वरस्तु वेद्यत्वादादित्यादिवद् बुद्ध्युपारूढ एव वेद्यः | न, असंभवात् | तथाहि - अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् | न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत् || १०६ || पाशत्वं हि श्रेयोदूरप्रतिरोधकत्वं बुद्ध्यादीनामिति कथं वा शिवात्मकपरश्रेयः प्रकाशकत्वं स्यात् | पाशत्वे वा परिमितत्वं बुद्धेरिति कथं तत्र दिक्कालाद्यपरिमितस्य परमेश्वरस्य खङ्गादावभीशुमदादेरिव प्रतिबिम्ब उपपद्यते | तदेकदेशस्य तु तत्र प्रतिबिम्बो भ्रान्तिरेव, भगवतोऽनवयत्वेनैक- देशाभावादित्युक्तमस्माभिरन्यत्र- बुद्धौ मितायां नेशस्य प्रतिबिम्बोऽमितत्वतः | खड्गेऽभीशुमतो यद्वत् तदंशस्य त्वसौ भ्रमः || इति || १०६ || किञ्च- दाह्याभिभाव्यधर्माणः पाशास्तेऽतो न शूलिनः | दाहाभिभवयोः कर्तुः प्रकाशायाभिवाञ्छिताः || १०७ || काष्ठैर्दाह्यैर्न दाहस्य कर्ता वह्निः प्रकाश्यते | नाभिभाव्याभिरुल्काभिर्दिनकृच्चाभिभावकः || १०८ || दाह्योऽभिभाव्यो वा काष्ठादिरग्न्यादेर्वा दाहाभिभव-कर्तुः प्रतिबिम्बग्रहणेन न प्रकाशको दृष्टः | बुद्धिश्च भगवतश्चेत्याऽभिभाव्या चेति तस्य सा न प्रकाशिका || १०७-१०८ || ननु दर्पणादिभिर्दाह्यैरनैकान्तिकता ? अत्र भवतो मूलयुक्तेस्तत्र न दोषः | किञ्चागमविरोधश्चात्र पक्षे | तथाहि - विशुद्धेनात्मतत्त्वेन चैतन्याख्येन सूत्रकृत् | शिवशक्तिकले शुद्धे शिवो ध्येय इति ब्रुवन् || १०९ || पाशागम्यो महेशान इति ख्यापयति स्म नः | दीक्षितैर्ज्ञानशक्त्यैव निर्मलया शिवशक्त्या दीपितया शिवो ध्येय इति रौरवसूत्रकारोऽब्रवीत् | न बुद्धेर्ध्यातव्यो भगवानित्याह- (तत्स्थो लीनः, सर्वाञ्जन, आत्मतत्त्वमिति पङ्क्तिक्रमस्तत्र दृश्यते |) सर्वाञ्जनविनिर्मुक्तं शिवशक्तिकलोत्थितम् | आत्मतत्त्वमिदं शुद्धं साधकानां प्रकीर्तितम् | ततस्थो लीनस्वतत्त्वेन तां कलां चिन्तयेद् बुधः (रौ० सू० ४ | ४२-४३) इति || १०९ || तदेवम् - न ध्येयो नापि च ज्ञेयस्तस्मादीशोऽणुबन्धनैः || ११० || तस्माद् बुद्ध्यादिभिर्न ज्ञातुं नापि तदैकनिष्ठतया ध्यातुं शिवो दीक्षितैः शक्यते || ११० || कथं तर्हि शिवो ज्ञायत इत्युच्यते - शिवार्कशक्तिदीधित्या समर्थीकृतचिद्दृशा | शिवं शक्त्यादिभिः सार्धं पश्यत्यात्मा गतावृतिः || १११ || यथाऽर्कोपकृतेन चक्षुषा लोकोऽर्कं पश्यति, एवं परमेश्वरानुग्रहान्निवृत्तावरणयोपचितसामर्थ्यया च ज्ञानशक्त्यैव तदनुगृहीतैर्भक्तैस्तत्त्वज्ञाननिष्ठैः परमेश्वरो दृश्यते | किं घटादिवत् कर्मतया ? न, द्रष्टृद्रष्टव्ययोर्द्वयोरपि व्यापकत्वेन तथा दर्शनासंभवात् || १११ || इत्थम् - पाशानाप्ये शिवे शब्दाद् योगसाधनचेष्टितात् | सकलाणोः शिवज्ञानं दृश्यते तत्कथं भवेत् || ११२ || पाशागम्यत्वे भवतः कथं शास्त्रात् प्रतिपत्तिर्दीक्षितात्मनां शब्दस्याकाशवायुहेतुत्वेन पाशत्वात् कथं ततस्तत्प्रतिपत्तिः || ११२ || अत्रोच्यते - मन्त्रतन्त्रात्मके शब्दे शिवो व्यक्तः कलासु च | समर्थयति चिच्चक्षुर्नातः किञ्चिद् विरुध्यते || ११३ || सर्वत्र सर्वदाऽधिष्ठानाद् भगवान् सर्वैः सहित एवेति यथा क्वचिल्लिङ्गे मण्डले आचार्यादौ चानुग्राहकत्वेन विशेषसन्निधानादभिव्यक्त उच्यते | अत एव पूजानमस्कारादयस्तत्र क्रियमाणाः कर्तॄणां फलहेतवो भवन्ति नान्यत्र | तद्वत् स्थूलेऽपि पाशरूपे मन्त्रतन्त्रशब्दे तत्कलासु नादबिन्द्वाद्यासु भगवानभिव्यक्तश्चैतन्यं समर्थयन् स्वात्मानं पुंसां दर्शयतीत्यपूर्वमिदं मन्त्राणामभिधायकत्वं घटाद्यभिधायकेभ्य इत्युक्तमस्माभिर्मन्त्रवार्त्तिकटीकायाम् || ११३ || तथाहि - व्यक्तः शिवोऽणुबन्धेषु बन्धकार्यविलक्षणात् | गम्यते कार्यतः ख्याताद् व्यक्तो देहे ग्रहो यथा || ११४ || यथाहि मनुष्याणां केषाञ्चिच्छरीरं देवताऽधिष्ठितमविसंवादि त्रिकालवस्तूपदेशाज्ज्ञायते, तथैव मन्त्रशब्दोच्चारणात् तल्लिप्यक्षरविन्यासाच्च शब्दमात्रासंभविनो वश्यादेर्विलक्षणस्य कार्यस्य दर्शनात् तत्रभवानभिव्यक्तः प्रतिमादाविव गम्यते || ११४ || अत्र- अणुबन्धेषु सर्वेषु स्वपरात्मप्रकाशकः | भवः प्रकाशशून्येषु व्यज्यते कथमुच्यते || ११५ || न जडे चिद्रूपस्याभिव्यक्तिरुपपद्यत इत्यर्थः || ११५ || नैष दोषः - दीपस्तैलादिके दाह्ये दाहको व्यज्यते यथा | स्वपरात्मप्रकाशोऽयं निष्प्रकाशेषु चिद्वताम् || ११६ || दीपस्योपलक्षणत्वाद् यथा जडेऽपि मनुष्यादिशरीरे स्वपरात्मप्रकाशको व्यापकश्चात्मा चिद्वतामप्येषां मनुष्यादीनामुपकाराय कर्मानुरूपमभिव्यज्यते, तथैव परमेश्वरः प्रतिमादिषु चित्रादिषु मन्त्रशब्देषु च पशूपकाराय विशेषसन्निधानोऽभिव्यज्यत इत्यदोषः || ११६ || दीक्षितानामित्थं ज्ञानादस्य पाशस्य नाशः, कदा शिवतुल्यत्वमित्युच्यते - प्राप्नुतः शिवतुल्यत्वं तन्वन्ते गुरुदीक्षितौ | अनारब्धकार्याणामेव कर्मणां दीक्षया क्षयः, नारब्धकार्याणाम् | यच्छ्रूयते - दीक्षिताः परमं शान्तं प्रविशन्ति तनुक्षये इति | तेषां तु सद्योनिर्वाणदीक्षयैव क्षयः, न भोगात् || तथैव - बोगान्ते साधकः सिद्धिं तथैव प्राप्नुयाद् ध्रुवम् || ११७ || यच्छ्रूयते - भुक्त्वा भोगान् सुचिरममरस्त्रीनिकायैरुपेताः स्रस्तोत्कण्ठाः शिवपदपरैश्वर्यभाजो भवन्ति इति || ११७ || उक्तः ससाधनो मोक्ष इति | अधुना त्वेतन्निर्णये परमुक्तिनिरासः | तत्र महाव्रतः - सिद्धानां शिवतुल्यत्वे कारणानेकता भवेत् | तेषामतुल्यबुद्धित्वात् कार्यं नोत्पत्तुमर्हति || ११८ || मुक्तानामपीश्वरवत् सर्वकर्तृत्वे नवमिदमस्तु पुराणमस्त्विति विभिन्नमतित्वात् सर्वकार्यानुत्पादप्रसङ्ग इति मुक्तानां सर्वज्ञतैव, सर्वकर्तृता च परमेश्वरस्यैवेत्यभ्युपगन्तव्यमिति || ११८ || नैष दोषः - रागद्वेषादियुक्तत्वादतुल्यज्ञानता नृणाम् | तेषामतुल्यबुद्धित्वात् कामभेदो न दुर्लभः || ११९ || युक्त एव पशूनां रागादियोगेन पक्षग्रहादभिप्रायभेदः, सिद्धास्तु - रागादिदोषनिर्मुक्ताः सर्वगोचरबुद्धयः | सिद्धास्तेऽतो न कामैस्तु भेदवद्भिः समन्विताः || १२० || अविभिन्नाधिकारास्ते शिवेनोक्तास्तु सूरिभिः | तेनेह सर्वकार्याणामुत्पत्तिर्न विरुध्यते || १२१ || यतस्ते सिद्धत्वादेव रागादिरहिता यथावत् सर्वविषयज्ञातारः शिवेन सहाऽविभिन्नाधिकाराः सर्वकर्तृत्वाच्च, ततस्तेषां पक्षग्रहासंभवान्नाभिप्रायभेद इति न कार्यानुत्पाददोषप्रसङ्गोऽत्र || १२१ || महाव्रतपक्षे त्वमुक्तिरेव, यतः - असर्वकर्तृभावेन सर्वज्ञो मुक्त इत्यसत् | न्यूनत्वान्न च सार्वज्ञमकर्तृत्वात् पशुर्यथा || १२२ || परा परिपूर्णता हि मुक्तिः | असर्वज्ञभावश्च प्राप्तः | सर्वकर्तृत्वाभावात् पशुवद् भवेन्मुक्त इति || १२२ || चिद्व्यक्त्या सर्वकर्तृत्वं सिद्धानामीश्वरो यथा | अन्यथा कर्तृता न स्यादीश्वरस्याऽपि सिद्धवत् || १२३ || चिद्व्यक्त्या सर्वकर्तृत्वमस्त्येव | तथा सिद्धानां सर्वकर्तृत्वं यथा सिद्ध्यति, ईश्वरोऽपि सर्वज्ञत्वादस्य सर्वकर्तृताऽन्यथा न स्यादिति विश्वानुत्पादप्रसङ्गः || १२३ || अपि च - न कर्तृशक्तेश्चिद्व्यक्तिरेकनाशे सयुक्तिका | सा शक्तिरेकैव ज्ञानक्रियेत्युक्तं प्राक् | न च तस्याश्चिदंशेन व्यक्तिः क्रियांशेनाव्यक्तिर्युज्यते, निरंशत्वात् | न च विद्येश्वरशक्तिव्यक्तिभिर्व्यभिचारः, सर्वदा तासां व्यक्त्यभावात् || अथ सांख्यवत् पुरुषाणां कर्तृत्वं प्रागपि नास्तीत्युच्यते, तदप्ययुक्तम् - कर्तृत्वस्य न चाभावः साधितत्वात् ततस्त्वसौ || १२४ || सर्वज्ञानक्रियाहीनो निष्कलः केवली पशुः | कर्तृत्वं प्राग् भोगप्रकरणे साधितमिति तदनभिव्यक्तावेकत्वाच्छक्तेर्ज्ञत्वस्याप्यनभिव्यक्तिरिति सर्वज्ञानक्रियावैकल्येन पशुरेव भवेन्मुक्त इति || १२४ || अत्र पुनः परः - व्यज्यते कर्तृता सिद्धे सर्वत्र ज्ञानवन्न च || १२५ || अस्तीशः सर्वकर्तेति संचिन्त्य करणीयकृत् | सिद्धे यत्कर्तृत्वं तन्न ज्ञानवत् सर्वत्र सर्वकर्ताऽस्तीति किमधिकं मया कर्तव्यमिति संचिन्त्य सिद्धो न करणीयं करोतीति || १२५ || यद्येवम् - सिद्धे व्यक्ता पशौ नेति विशेषः कस्तयोर्यदि || १२६ || सर्वकार्याणि नो कुर्यात् सिद्धस्था सर्वकर्तृता | यदि व्यक्तमपि सिद्धस्य कर्तृत्वं न कार्यकरम्, तर्ह्यव्यक्तात् पशुकर्तृत्वात् तस्य को विशेषः || १२६ || तथाहि - प्रवृत्तिः सर्वनिष्पत्तौ व्यक्तिर्नान्या तु तद्गता || १२७ || ज्ञानं सर्वप्रकाशाय प्रवृत्तं व्यक्तमुच्यते | इयमेव त्वस्य कर्तृत्वस्य पशुविलक्षणा व्यक्तिः, या ज्ञानवत् तस्य सर्वप्रवृत्तिः || १२७ || तदेवम् - सर्वकृत्यप्रवृत्तौ वा नासावस्तीति वर्ण्यताम् || १२८ || गृह्यतां दृङ्निरोधो वा दोषो वा पूर्वमोक्षगः | व्यक्ता चेत् सिद्धस्य क्रियाशक्तिः सर्वकार्यक्षमैवाभ्युपगन्-तव्या | अथ व्यक्ताऽपि कार्यं न करोति, यद्येवं प्रतिबिम्बगर्भाणु-शक्तिवन्नास्त्येव सा तस्येति वाच्यम् | अथाव्यक्ता विद्यत इत्युच्यते, तर्ह्येकत्वाज्ज्ञानक्रिययोः शक्त्योर्दृङ्निरोधो ज्ञानस्याऽनभि-व्यक्तिर्मोक्षो वाच्यः | अथाव्यक्तयापि तया ज्ञानशक्तिर्व्यक्तेष्यते, यद्येवमविद्यमानपूर्वो मोक्षो यस्य परमशिवस्य तस्मिन् सर्वज्ञत्वान्मुक्तवदकर्तृत्वदोषः प्रोक्तोऽभ्युपगन्तव्य इति पक्षाणां चतुष्टयादस्माद् भवद्भिरेको ग्राह्यः | न च प्रथमपक्षस्यात्र कश्चिद् दोष इति शिवसमत्वं सर्वज्ञत्वसर्वकर्तृत्वलक्षणतैव मुक्तिरभ्युपगन्तव्या || ११८ || पाशुपतास्तु मुक्तावीश्वरगुणानां संक्रान्तितः सिद्धानां शिवसमतामाचक्षीरन्, तदयुक्तम् - विमोक्षे गुणसंक्रान्तावीशोऽनीश्वरतां व्रजेत् || १२९ || गुणखण्डस्य संक्रान्तौ गुणः सावयवो भवेत् | सिद्ध एवेश्वरगुणानां संक्रान्ताविष्यमाणायामीश्वरः सर्वज्ञत्वादिगुणरहितः स्यात्, गुणानामनंशत्वादेकदेशेन गुणसंक्रान्त्यसंभवात् || १२९ || किञ्च - त्यक्त्वा स्वगुणिनं यान्ति न च गुण्यन्तरं गुणाः || १३० || गच्छतां च व्यवस्थेयं पदार्थानां विरुध्यते | यदि च स्वगुणित्यागेन गुण्यन्तरे गुणानां वृत्तिरिष्येत, तदा सर्वः सर्वगुणी स्यादिति दृष्टनियमानुपपत्तेर्मुक्तोऽमुक्तश्च मुक्तः प्रसज्यत इति गुणसंक्रान्त्यनुपपत्तेर्न तया शिवसमत्वमभ्युपगन्तव्यमिति || १३० || वेदान्तविदस्तु तल्लयात् तत्समत्वं मुक्तिं प्रतिपन्नाः, तदप्ययुक्तम्, यतः - प्रागुक्तदोषदुष्टात्मा परमात्मा यथा तथा || १३१ || सिद्धस्तल्लयसंप्राप्तस्तदभिन्नो यतस्त्वसौ | उपादानकारणत्वात् परमात्मनोऽचेतनत्वादिदोषदुष्टत्वं यत् प्राक् प्रतिपादितं तत्सिद्धस्याऽपि तदभेदात् प्रसज्यत इत्यद्वैतमेव मोक्षो भवताम् || १३१ || अपि च - एकत्वदर्शनं मुक्तेः साधनं स्वात्मबाधितम् || १३२ || मोच्यमोचनकर्तृणां नाभेदे सा यतो भवेत् | एकमेवाद्वितीयं ब्रह्मैव सत्यम्, ततस्तज्ज्ञानमेव मुक्तेः साधनमितीदमुच्यमानं माता मे वन्ध्येतिवत् स्वोक्त्यैव बाधितम् | यत एकत्वे सति न साध्यसाधनभावः, साध्यसाधनभावे वाऽनेकत्वमिति || १३२ || किञ्च - भेदे सति प्रमाणानां प्रवृत्तिर्नान्यथा मता || १३३ || कॢप्तः किमिति विद्वद्भिरभेदो निष्प्रमाणकः | ब्रह्मैव सत्यमिति येन प्रमाणेन सिद्धं भवताम्, तद् यद्यसत्यमेव, कथं तस्मात् स्वप्नदृष्टादिवत् सत्यब्रह्मसिद्धिः | अथ सत्यम्, तर्हि प्रमाणप्रमातृप्रमेयप्रमितिसत्यत्वादद्वैत-मसत्यमिति कथं तत्प्राप्तिरपि मोक्षः || १३३ || सांख्यास्तु - मुक्त्वा योगफलं रम्यं भोगान् सांसारिकानपि || १३४ || आचैतन्यं कथं चान्ये कैवल्यं मोक्षमूचिरे | योगः सादाशिवो देहः, तल्लक्षणं फलं सर्वज्ञतादिरूपं मोक्षं परित्यज्य संसारभोगांश्च नानाविधविषयसंवेदन-फलानणिमादिसाध्यांस्त्यक्त्वा कैवल्यलोभेन प्रकृतिवियोगादात्म-नाशसमं ज्ञत्वमेव स्वेषां मोक्षं कल्पितवन्तः | न च तस्मिन् अपुरुषार्थभूते कस्यचित् प्रवृत्तिरुपपद्यते || १३४ || तथा हि - स्वचैतन्यविनाशाय सन्तः सन्तः कथं च ते || १३५ || विवेकदर्शनाभ्यासप्रयासं कुर्वतेऽन्वहम् | के हि पण्डिताः स्वात्मनो ज्ञाननाशाय प्रत्यहं ज्ञानयोगाभ्यासादिप्रयासं कुर्युः || १३५ || किञ्च - विवेको नाम वैधर्म्याद् गुणानां पुरुषस्य च || १३६ || तत्र यद्दर्शनं तत्तु विचारे नोपपद्यते | न च गुणपुरुषविषयं ज्ञानं विचारे क्रियमाणे सांख्यानामुपपद्यते || १३६ || तथाहि गुणा वा पुरुषविवेकं दर्शयन्ति स्वयमेव वा पुरुषः पश्यति ? तत्र - कर्तृप्रसवसंकीर्णधर्मका हि गुणा वयम् || १३७ || त्वं नेति पुरुषस्यार्थं बुद्धिस्था दर्शयन्ति ते | चिच्छक्तिरपरिणामिनी अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता चेति बुद्धिदर्शितविषयत्वेनैव पुरुषस्याभ्युपगमाद् बुद्ध्युपारूढैरेव गुणैर्वयं कर्तृत्वादिधर्मयुक्ताः परस्परं संकीर्णाः, त्वं तु नेति तस्य विवेको दर्शनीयः || १३७ || किमतः ? अतश्च - तथा दर्शितदर्शित्वे मिथ्यादर्शी पुमान् भवेत् || १३८ || मिथ्यादर्शनसाध्यत्वं मोक्षस्येति सुदुर्घटम् | एवं बुद्ध्युपारूढगुणदर्शित्वे पुरुषस्य बुद्धेः परिमितत्वेनापरिमितगुणविषयत्वासंभवात् | यदुक्तम् - कपिलब्रह्मणोऽप्यप्रत्यक्षा गुणा इत्येकदेशेन तैर्बुद्धावुपारोहणीयम् | एकदेशेन तत्त्वप्रतिपतीरप्रतिपत्तिः नीलगिरिरिति नीलोपाधौ हिमवति तत्प्रतिपत्तिर्मिथ्यैव | न च मिथ्याज्ञानान्मोक्षः, अयुक्तत्वात् || १३८ || कर्तृत्वादि गुणा ह्येते गुणा नाहमितीदृशी || १३९ || दर्शने पुरुषस्येष्टे हता दर्शितदर्शिता | बुद्धिप्रदर्शित एवार्थः पुरुषेण दृश्यत इत् भवद्भिर्यदुक्तं तत्साक्षात् स्वात्मविविक्तगुणद्रष्टृत्वे पुरुषस्य कल्प्यमाने व्याहतम् || १३९ || अथोच्यते - न साक्षात्पुरुषो गुणान् पश्यति, नापि ते बुद्ध्युपारोहेण तस्य स्वात्मानं दर्शयन्ति, प्रोक्तविरोधात् | अपि तु गुणपुरुषयोरन्यत्वमात्रं दर्शयन्ति | तदपि न, यतः - अन्ये गुणाः पुमानन्य इति नो दर्शयन्ति ते || १४० || गुणेभ्यो न गुणा येन भिन्नाः सन्ति धियांनिधेः | न चाऽपि विषयस्तेषामणुरित्युदितं पुरा || १४१ || यदि हि न स्वात्मानं दर्शयन्ति, तर्हि गुणान्तराणामन्यत्वं दर्शयन्तीति प्राप्तम् | न च धियांनिधेर्बुद्धिनिधानाद् गुणलक्षणादन्ये गुणाः संभवन्ति | न चाप्यात्मा तेषां विषय इत्युक्तं प्राक् - परिणामी पुमान् भोग्यः प्राप्तस्तद्गोचरो यदि (श्लो० १०५), इति कथमविषये तदन्यत्वं दर्शयेयुः || १४०-१४१ || विवेकविषयं तस्माद् दर्शनं नोपपद्यते | इत्थं विवेकदर्शनानुपपत्तेः कुतः कैवल्यावाप्तिर्मोक्ष इति सर्वज्ञतादिरूपस्तव मोक्षोऽभ्युपगन्तव्यः || शाक्तादिदृष्टीनां का वार्तेत्युच्यते - यथोक्तपशुपाशेषु साध्यसाधनवर्जनात् || १४२ || पाशात्मिकास्ततो हेया दृष्टयो वादिनां बुधैः | यतो यथोक्ते पशुविषये पाशविषये च प्रमाणतः सिद्धे यत् साध्यं मुक्तिस्तद्विच्छेददर्शनं च साधनम्, तन्न साधयन्त्यविषयत्वात् | अतोऽन्यवादिदृष्टयोऽश्रेयःफलाः श्रेयोऽर्थिभिः परिहार्याः || १४२ || अत एव च - पशुपाशादिवैशिष्ट्यप्रकाशकमबाधितम् || १४३ || शैवं तदधिकार्थत्वाद् विदुषः कस्य न प्रियम् | नहि दर्शनान्तरैः पशुपाशाद्यदृष्टमेव, किन्तु यथाभूतं तथा विशिष्टं दृष्टमिति तद्वैशिष्ट्यप्रकाशकम् | अत एवागृहीतग्राहि प्रोक्तवत् प्रत्यक्षानुमानाभ्यां सुसंवादं शैवागमाख्यं प्रमाणं प्रत्यक्षादिवत् कस्य नाभिमतम् || १४३ || नान्वागमान्तराणामपि प्रमाणत्वात् तद्विरोधेऽस्य कथं प्रमाणतेति, अत्रोच्यते - पाशदृष्टिविरोधाय प्रवृत्तमपि मानताम् || १४४ | न जहाति यतश्छेद्याः पाशास्तस्येह सर्वतः | नानेन दृष्ट्यन्तराण्यपोद्यन्ते, किन्तु दृष्ट्या नैतदेवमिति पाशात्मकतदर्थबाधकत्वेनैवास्योत्पत्तेस्तद्विरोधान्नेदं रजतं शुक्तिकैवेयमिति ज्ञानस्येव न प्रामाण्यं विहन्तुं क्षमम्, नापि दृष्ट्यन्तरैः सहास्य विरोधः यतः - न च स्वगोचरे तासां बाधते तत्प्रमाणताम् || १४५ || न च तच्छैवाख्यं प्रमाणं दृष्ट्यन्तराणामसत्यार्थ-त्वं प्रतिपादयति, येन तैः सहास्य विरोधः स्यात् | अपि तु प्रत्यक्षादीनामिवाल्पार्थदर्शित्वेऽपि यथास्वं प्राप्यप्रापकत्वेन प्रामाण्यमेवेति | एतच्चोक्तमस्माभिः सर्वागमप्रामाण्ये || १४५ || अपि च - तासु वर्णाश्रमाचारानभ्यनुज्ञातवच्च तत् | यदाहुः - इति (पूर्वतनी १२९ पृष्ठस्था तृतीया टिप्पणी द्रष्टव्या |) वर्णाश्रमाचारान्मनसाऽपि न लङ्घयेत् || यो यस्मिन्नाश्रमे तिष्ठन् दीक्षितः शिवशासने | स तस्मिन्नेव संतिष्ठन् शिवधर्मं च पालयेत् || इति | अत एव युष्मद्दृष्ट्याऽप्यस्य न पाषण्डत्वम्, वेदाविरोधात् | वेदवित्परिग्रहश्च श्रूयते यतः | पुराणेतिहासादौ श्वेतोपमन्युप्रभृतीनां महर्षीणामत्रा-नुष्ठानम्, भारते च नरनारायणयोरश्चत्थाम्नश्च | आभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे इति सुवर्णाक्षे च भगवतो परमेश्वराराधनात् सिद्धिः | अपि चान्यत् प्रियतमो लोके कृष्ण भविष्यति | त्वन्मुखे च जगत्सर्वं भविष्यति न संशयः || इति रामायणे | कार्तवोर्यादेः स्मृतिषु च प्रतिष्ठादिपूर्वो धर्मः - पक्वेष्टकाचितं सम्यग् यः करोति शिवालयम् इति | सूत्रे - तत्र मोक्षं विनिर्दिशेत् इति | दृश्यन्ते च पृथुकेश्वररामेश्वरादयः प्रतिष्ठा-पिताः | वेदेऽपि श्वेताश्वतरादिशाखास्वथर्वशिरःप्रभृतिषु च मन्त्रेषु शैवसंप्रत्ययः | ततो न विगानम्, नापि विच्छिन्नमूलता, न च कैश्चिदेव परिग्रहः, येन युष्मद्दृष्ट्याऽप्यप्रामाण्यं स्यात् || किञ्च - न चान्येन प्रमाणेन संरुद्धस्तस्य गोचरः || १४६ || श्रोत्रियैरप्यतो ग्राह्यं तत्फलाऽधिकसाधनम् | न च प्रत्यक्षेन वाऽनुमानेन वाऽस्य बाध इत्युक्तं प्राग् भोगप्रकरणे, येनाग्निना सिञ्चेदित्यादेरिवाप्रामाण्यं स्यादिति सर्वमविरुद्धम् | परश्रेयोहेतुर्वेदविद्भिरन्यैश्च प्रमाणमेतद् ग्राह्यम् || १४६ || न च दृष्ट्यन्तरैरप्यस्य बाधः, यतः - न ताभिरभिभाष्याभिः सामान्याभिश्च बाध्यते || १४७ || ताभ्यो विलक्षणत्वात्तु तया चाविषयत्वतः | वेदादीनामपि रचना कर्तारं न व्यभिचरति | हिरण्यगर्भ-प्रभृतयः कर्तारोऽभियुक्तैः स्मर्यन्ते | गीतासु च - वेदान्तकृद् वेदविदेव चाहम् (१५ | १५) इति | तेषां च परस्परविरुद्धार्थशास्त्रोप-देशादसर्वज्ञत्वम् | यदाहुः सुगतो (पूर्वतनी १३५ पृष्ठस्था टिप्पणी द्रष्टव्या |) यदि सर्वज्ञः कपिलो नेति का प्रमा | अथोभावपि सर्वज्ञौ मतिभेदस्तयोः कथम् || इति | असर्वज्ञसामान्यकर्तृप्रणीत- दृष्टयोऽप्यसर्वविषयाः सर्वज्ञप्रणीतशास्त्राभिभाव्यास्ताः कथं तदेवाभिभावकं सर्वज्ञप्रणीतत्वाद्वक्ष्यमाणवत्-सर्वान्यागमार्थपरिच्छेदकत्वेन ताभ्यो विलक्षणं विषयीकृतं च बाध्यते | यथा तेन विषयीकृतास्तथा न ताभिस्तदिति || १४७ || यथा मेयफले तासां तदनूद्य प्रकाशते || १४८ || स्वप्रमेयफलारूढं वैशिष्ट्यं न तथा कृताः | तस्य मेयफलं चोक्त्वा स्वप्रमेयफलाश्रितम् || १४९ || वैशिष्ट्यमवभासन्ते तस्मात् तासां न गोचरः | यथाहि तच्छैवं तासां दृष्टीनां मेयफलविषयं वैशिष्ट्यं स्वप्रमेयफलारूढम् - बुद्धितत्त्वे स्थिता बौद्धा गुणेषु त्वार्हताः स्थिताः इत्याद्यनूद्य सर्वविषयत्वेन प्रकाशते, न तथा तत्फलविषयं ताभिः सर्वाभिर्गोचरीकर्तुमशक्यम् | अतः कथमविषये बाधकत्वं तासां स्यात् || १४९ || अत एव - अभ्यनुज्ञा विषेधो वा तेन तासु विनिश्चितम् || १५० || तत्तुल्यजातिदृग् व्याप्यो न शिवज्ञानगोचरः | यतोऽसर्वज्ञप्रणीतत्वेन दुर्बलत्वं तासाम्, ततः शैवागमा-विरोधेन स्वविषयानुष्ठानेऽभ्युपगम एव, इति (पूर्वतनी १२९ पृष्ठस्था तृतीया टिप्पणी द्रष्टव्या |) वर्णाश्रमाचारान् मनसाऽपि न लङ्घयेत् इति तद्विरोधे तु निषेधः कुर्याद् ब्राह्मीं न वा कुर्याच्छैवीमेव नियोगतः इति || १५० || न तु ताभिरसर्वज्ञप्रणीताभिस्तुल्यजन्मज्ञानं तेन व्याप्यो भवति कदाचिदपि शैवज्ञानगोचरोऽर्थः | न च कार्यत्वादनित्यत्वमस्य | यतः - अनादिकालसंसिद्धं तद्गुणत्वेऽपि शाङ्करे || १५१ || तच्च सम्यक् परिच्छेदि शाङ्करं ज्ञानमीरितम् | शब्दार्थरूपो ह्यागमः | तत्र तन्त्ररूपस्येश्वरकृतत्वेऽपि तदर्थस्य परमेश्वरसमवेतस्य सम्यग् ज्ञानादेर्गुणस्य नित्यत्वान्नित्यत्वम् | अत एव तत्प्रमाणम् || १५१ || अत एव - न चाविहतशक्तित्वात् पत्युर्बाधं तदश्नुते || १५२ || न तुल्यफलताऽप्यस्मात् कुतो निष्फलता भवेत् | न तन्निष्फलम्, नापि दृष्ट्यन्तरैः समानफलं बाध्यमान-फलं वा, किन्तूक्तमेव तत्प्रमाण्यं भगवतोऽप्रतिहतशक्तित्वेन सर्वोत्तमत्वात् || १५२ || अस्तु वा दृष्ट्यन्तरैः सह समानत्वम्, तथापि न पाक्षिकमुपादानम्, यतः - ग्राह्यं तुल्यफलत्वेऽपि विमुक्तिर्दीक्षयैव तत् || १५३ || सिद्धिदं तु यतः पुंसां साधनेन लघीयसा | को ह्यभिप्रेतसाधनं लघुतरं परित्यज्य क्लेशहेतावति-विस्तीर्णे प्रवर्तते | तदुक्तम् - अत्रैव मधु विन्देत किमर्थं पर्वतं व्रजेत् | इष्टस्यार्थस्य संप्राप्तौ को विद्बान् यत्नमाचरेत् | इति || १५३ || किञ्च - सिद्धिर्व्यापारनिर्मुक्ता मुक्तिरप्यतिशायिनी || १५४ || यत्र तत्को न गृह्णाति साधनं श्रुतिभूषणम् | यस्मिन् शास्त्रे सर्वोत्कृष्टं फलं श्रूयते, तत्रान्यपरित्यागेन को न प्रवर्तत इति दृष्ट्यन्तरैस्तुल्यफलत्वेऽपि न विकल्पिता प्रवृत्तिरत्रेति || १५४ || ननु परमेश्वरप्रणीतं तदिति कुतस्तदुच्यते - शिवात् परम्परायातौ भोगमोक्षौ ससाधनौ | आत्रेयाय मुनीन्द्रेण रुरुणा संप्रकाशितौ || १५५ || मन्दबुद्धिप्रबोधाय करुणाविष्टधीः स्फुटम् | सद्योज्योतिस्तु संक्षेपात् तावेतौ परिबद्धवान् || १५६ || यं चानुशासयामास भगवानीशसंमतः | उग्रज्योतिर्गुरुः श्रीमान् सर्वविद्यासरित्पतिः || १५७ || इति मोक्षकारिका समाप्ता || गुर्वाम्नायतोऽविच्छिन्नस्मरणसन्ततेरेव पारमेश्वरत्वेनैतत् प्रतीयते सर्वश्रेयोहेतुरिति || १५५ - १५७ || इति मोक्षकारिकायां नारायणकण्ठसूनुना रचिता | संक्षेपाद् वृत्तिरियं शिष्यहिता भट्टरामकण्ठेन || इति श्रीनारायणकण्ठात्मजभट्टरामकण्ठकृत- मोक्षकारिकावृत्तिः समाप्ता || ########### END OF FILE #######